________________
सामाचा
रीशत
कम् ।
॥ ३८ ॥
Jain Education Inte
ननु-तपागच्छीया आधुनिकाः पर्युषितवल्लचणकपूपिकादीनां ग्रहणं श्रीआचाराङ्ग-सूत्रकृताङ्ग- स्थानाङ्ग - भगवती -ज्ञाताधर्मकथा - औपपातिक- ओघ निर्युक्त्यादिसूत्रवृत्तिषु साक्षाद्भगवताऽनुज्ञातमपि निषेधयन्तो दृश्यन्ते परं तद्गच्छीयप्रातनसूरिकृतग्रन्थेऽपि निषेधोऽस्ति न वा ? उच्यते-निषेधो दूरे तिष्ठतु, प्रत्युत तग्रहणं अनुज्ञातमस्ति, यदुक्तं तपागच्छीयरल| शेखरसूरिभिः षडधिकपञ्चदशशतवर्षे १५०६ कृतायां श्रीश्राद्धप्रतिक्रमणवृत्तौ विधिकौमुदीनान्यां चतुर्मासिकाभिग्रहाधिकारे श्रावकानधिकृत्य पर्युषितद्विदल पूपिकापर्पटवटकादि- शुष्कशीततन्दुलीयकादि-पत्रशाकटुप्पर कखादिरिकखर्जूरद्राक्षाखण्डशुण्ठ्यादीनां फुल्लिकुन्थ्वीलिकादिसंसक्तिसम्भवात् त्यागः, औषधादिविशेषकार्ये तु सम्यक् शोधनादियतनया एव तेषां ग्रहणमित्यादि, एतावता चातुर्मासिके पर्युषितद्विदलादीनां निषेधं वदता च आचार्येण शीतकालादौ तद् अप्रतिषेधात् तग्रहणं उक्तमेव । पुनर्विधिकौमुद्यामेव तपागच्छनायक - श्रीरलशेखरसूरिणा पर्युषितपूपिकानां निषेधो न कृतः, किन्तु पर्युषितद्विदलपूपिकानिषेधः ? काकोक्तिः इयं । तथाहि
पर्युषितद्विदल पिकादि १ केवलजलराद्धकूरादि २ तथाऽन्यदपि सर्वं कुथितान्नं पर्युषितौदनपक्वान्नादि वा अभक्ष्यत्वेन वर्जनीयमिति, तन्निषेधश्च अस्माभिरपि सर्वैः क्रियते एव, को नाम कुथितान्नपर्युषितद्विदलपूपिकाः स्वीकरोति ? इति । ननु ये च तपागच्छीयाः पर्युषितवल्लचणकमापादिद्विदलानां पर्युषितगोधूममण्ड कपूपिकादीनां च ग्रहणनिषेधं कुर्वन्ति, ते ? किं सूत्राक्षराणि दर्शयन्ति, किं वा स्वगच्छवृद्धपरम्परां वदन्ति ?, उच्यते - स्वगच्छ परम्परामेव, यदुक्तं तपागच्छाचार्य-ही| रविजयसूरिप्रसादीकृतप्रश्नोत्तरसमुचये नवमप्रभे ( ३९ पत्रे ), तथाहि
For 26
Personal Use Only
पर्युषितद्विदलमंड
कग्रहणविचारः
॥ ३८ ॥
ww.jainelibrary.org