SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ मेव ॥३॥ एवं सूत्रकृताङ्गेऽपि क्रियास्थानकाधिकारे साधुवर्णके (३३३ पत्रे), तथाहि-“अदुत्तरं च णं उक्खित्तचरगाx x अंतचरगा पंतचरगा x x अंताहारा पंताहारा अरसाहारा विरसाहारा लूहाहारा तुच्छाहारा अंतजीवी पंतजीवी" इत्यादि ॥४॥ तथा स्थानाङ्गेऽपि पश्चमस्थानके प्रथमोद्देशके साधूनां अभिग्रहाधिकारे (२९६ पत्रे ), तथाहि "पंच ठाणाई समणाणं जाव अब्भणुन्नायाइं भवंति, तं जहा उक्खित्तचरते निक्खित्तचरते अंतचरते पंतचरते लहचरते" व्याख्या-इतश्च साधुधर्मभेदस्य बाह्यतपोविशेषस्य वृत्तिसंक्षेपाभिधानस्य भेदाः 'उक्खित्तचरए' इत्यादिना अभिधीयन्ते, तत्र उत्क्षिप्तं स्वप्रयोजनाय पाकभाजनात् उद्धृतं तदर्थ अभिग्रहविशेषात् चरति-तद्गवेषणाय गच्छति इति उत्क्षिप्तचरकः ७१, एवं सर्वत्र, नवरं निक्षिप्तं-अनुद्धृतं २, अन्ते भवं आन्तं-भुक्तावशेष वल्लादि ३, प्रकृष्टं आन्तं प्रान्तं तदेव पर्युषितं ४,8 रूक्ष-निःस्नेहं इति ५, इह च भावप्रत्ययप्रधानत्वेन उत्क्षिप्तचरकत्वं इत्यादि द्रष्टव्यं, एवं उत्तरत्राऽपि भावप्रधानता दृश्या, इह च आद्यौ भावाभिग्रही इतरे द्रव्याभिग्रहाः, अत्राऽपि प्रान्तशब्देन पर्युषितवल्लादि व्याख्यातम् ॥५॥ पुनरपि श्रीस्थानाङ्गे चतुर्थस्थानके द्वितीयोद्देशके (२१९ पत्रे ); तथाहि| "चउबिहे आहारे पन्नत्ते तंजहा-उवक्खरसंपन्ने १, उवक्खडसंपन्ने २, सभावसंपन्ने ३, परिजुसियसंपन्ने ४" व्याख्याउपस्क्रियते अनेन इति उपस्करो हिन्वादिः, तेन संपन्नो युक्तः उपस्करसंपन्नः तथा उपस्करणं उपस्कृतं पाक इत्यर्थः, तेन संपन्न ओदनमण्डकादिः उपस्कृतसंपन्नः पाठान्तरेण नो उपस्करसंपन्नो-हिङ्ग्वादिभिः असंस्कृत ओदनादिः, स्वभावेनपाकं विना संपन्नः-सिद्धी द्राक्षादिः स्वभावसंपन्नः, 'परिजुसिय'त्ति पर्युषितं-रात्रिपरिवसनं तेन संपन्नः पर्युषितसंपन्नः 73 FORECLOSAGARRAIOAK सामा०७ Jain Education inter FOE Prvale & Personal Use Only jainelibrary.org
SR No.600047
Book TitleSamacharishatakama
Original Sutra AuthorSamaysundar
Author
PublisherJindattsuri Gyanbhandar
Publication Year1939
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy