________________
धान्यविशेषभूताः पर्युषितमाषा वा सिद्धमाषा वा ओदनमथुकुल्माषं इति समाहारद्वन्द्वः तेन आत्मानं यापयतीति सम्बन्ध इति। एतदेव कालावधिविशेषतो दर्शयितुमाह-"एआणि तिण्णि" इत्यादि, एतानि ओदनादीनि अनन्तरोक्तानि प्रतिसेवते, तानि च समाहारद्वन्द्वेन तिरोहितावयवसमुदायप्रधानेन निर्देशात् कस्यचिन्मन्दबुद्धेः स्याद् आरेका, यथा त्रीण्यपि समु|दितानि प्रतिसेवते इत्यर्थः, अतः तव्युदासाय 'त्रीणि' इति अनया सङ्ख्यया निर्देश इति, त्रीणि समस्तानि व्यस्तानि वा यथालाभं प्रतिसेवते इति, कियन्तं कालं? इति दर्शयति, अष्टौ मासान् ऋतुबद्धसङ्घकान् आत्मानं अयापयत् वर्तितवान् , भगवान् इति अत्र कुल्माषशब्देन द्वितीयव्याख्याने पर्युषितमाषा उक्काः, रात्रिवासिन इत्यर्थः, ते च भगवता श्रीमहावीरदेवेन स्वयं गृहीताः॥१॥ | पुनरत्रैवोद्देशकेऽग्रेतनालापके ( २८५ पत्रे)-"अवि सूइयं वा सुकं वा सीअंपिंडं पुराणकुम्मासं । अदु बुक्कसं पुलागं वा लद्धे पिंडे अलद्धे दविए ॥ १०७॥" 'सूइति, दध्यादिना भक्तं, आर्टीकृतमपि तथाभूतं शुष्कं वा वल्लचणकादि, शीतपिण्डं वा-पर्युषितभक्तं तथा "पुराणकुम्मासं" वा बहुदिवससिद्धस्थितकुल्माष “बुक्कसं"ति चिरन्तनधान्यौदनं,
यदि वा पुरातनसक्तुपिण्डं, यदि वा बहुदिवससम्भृतगोरसं गोधूममण्डकं चेति, तथा "पुलाक" यवनिष्पावादि, सातदेवम्भूतं पिण्डं अवाप्य रागद्वेषविरहात् द्रविको भगवान् तथा अन्यस्मिन् अपि पिण्डे लब्धेऽलब्धे वा द्रविको
एव भगवान् इति, तथाहि-लब्धे पर्याप्ते शोभने वा नोत्कर्ष याति, नाऽपि अलब्धे अपर्याप्ते अशोभने आत्मानं आहारं दातारं वा जुगुप्सते इति ॥ अत्राऽपि पुराणकुल्माषशब्देन बहुदिवससिद्धस्थितकुल्माषो व्याख्यातः" अपि च-बुक्क
71
KANSASSARIOUS
Jain Education
2
For Private & Personal Use Only
IR
ww.jainelibrary.org