________________
सामाचारीशत
साधूनां
कम्।
॥३४॥
'जे भिक्खू सगणच्चिआए परगणच्चियाए निग्गंथीए समं गामाणुगामं दूइजमाणे पुरओ गच्छमाणे पिट्ठओ रीअमाणे ओहयमणसंकप्पे चिंतासोगसागरं संपविट्ठो करयलपल्हत्थमुहे अट्टज्झाणोवगए विहारं करेइ जाव करेंतं वा साइजति जाव साध्वीभिः |तं सेवमाणे आवजति चाउम्मासिअ परिहारहाणं' अणुग्घइयं” इति ॥ ६॥
समं विहा___ अत्रेदं तात्पर्यम्-श्रीस्थानाङ्गवृत्त्यभिप्रायेण साधूनां स्त्रीभिः समं विहारो निषिद्धा, तथा निशीथभाष्याभिप्रायेण साधूनां रनिषेधास्त्रीभिः समं चतुर्भजयाऽपि विहारो न्यषेधि, करणे तु बहवो दोषाः प्रतिपादिताः, ग्लानादिनिमित्ते ताभिः समं विहारविधिः धिकार उक्तः, स तु कारणिका, अपवादपदं उत्सर्गपदे स्थाप्यमानं तु उत्सूत्राय भवतीति । तथा श्रीबृहत्कल्पभाष्यवचनप्रामाण्यात्तु-श्रीआचार्योपाध्यायप्रवर्तकस्थविरगणावच्छेदकानां बहुश्रुतानां परिणतवयस्कानां संविग्नानां अन्यतरः कोऽपि स्त्रीसम्बन्धिसार्थयोगेन साध्वी क्षेत्रान्तरे नयति, तत्रापि आचार्यैः संवेगी निर्विकारो भ्रात्रादिः सहस्रयोधिशस्त्रकलाकुशलो द्विस्त्रिसाधुसमन्वितो विलोक्यते नाऽन्यः, एतादृशः पूर्वोक्तनिशीथभाष्यबृहत्कल्पविधिना साध्वी क्षेत्रान्तरे प्रापयति न याहशः तादृशः, अतोऽत्र इदं आकृतम्-सामान्यसाधूनां तु साध्वीनां क्षेत्रान्तरे प्रापणं निषिद्धं, आचार्यादिपञ्चकं प्रापयति तत्र तुकारणं उक्तं, तथा पुनः साध्वीभिः समं विहारनिषेधसूत्रं तु स्पष्टमेव पूर्व उपदिष्टमस्ति, तथा लोकविरुद्धश्चायम्-ताभिः समं विहारः ये केऽपि पश्यन्ति तेऽपि निन्दन्ति-अहो ब्रह्मचर्यधारिणोऽमी योगियोगिनीवत् ये वनिताभिः विरहिता |
॥३४॥ दिनमपि स्थातुं न शक्नुवन्ति । अपरं च तेषामपि मध्ये केचिद्भुक्तभोगाः, केचिदभुक्तभोगाः, केचिद्युवानः, ततस्तेषां ता दृष्ट्वा कथं चेतोवृत्तौ कलाकेलिकेलयो जलधिजलवेला इव प्रसरन्त्यो वारयन्ते, तदनिवारणेन कदाचित्कथंचित् ।
Jain Education inte
For Private & Personal use only
Www.jainelibrary.org