________________
Jain Education Inter
नयति, यो वा संयतः कृतकरणः इषुशास्त्रे कृताभ्यासः तेन सहितः संयतीः तत्र नयति, स च गणधरः स्वयं पुरतः स्थितो गच्छति, संयत्यस्तु मार्गतः स्थिताः, । अत्र एव मतान्तरं उपन्यस्य दूषयन्नाह” इत्यादि, तथा यतिजीतकल्पबृहद्वृत्तौ आचार्य:- "संयतीवर्त्तापकः प्रथमभङ्गवर्ती अनुज्ञातो, न शेषभङ्गत्रयवर्ती, ते चाऽमी भङ्गाः, सहिष्णुः अपि भीतपर्षत् अपि १ सहिष्णुः न भीतपर्षत् २ असहिष्णुः परं भीतपर्षत् ३ असहिष्णुः अभीतपर्षच्च ४ तत्र इन्द्रियनिग्रहसमर्थः संयती: प्रायोग्यक्षेत्र वस्त्रपात्रादानं उत्पादनायां प्रभविष्णुः सहिष्णुः उच्यते १ यस्य तु सर्वोऽपि साधुसाध्वीवर्गो भयात् न कां अपि क्रियां करोति स भीतपरिषत्, तत्र प्रथमभङ्गे वर्त्तमानः संयतीपरिवर्तने समुचितः शेषेषु त्रिषु भङ्गेषु वर्तमानो नाऽनुज्ञातः, यदि परिवर्तयति तदा चतुर्गुरुकाः यतो द्वितीयभङ्गे आत्मनः सहिष्णुः परं अभीतपरिषत् तदा स्वच्छन्दप्रचाराः सत्यो यत् किमपि ता करिष्यन्ति तत्सर्वं अयमेव प्राप्नोति, तृतीयभङ्गे तु स्वयं असहिष्णुतया तासां अङ्गप्रत्यङ्गादीनि दृष्ट्वा यद् आचरति तं निष्पन्नं ( दोषमाप्नोति ) चतुर्थभङ्गे द्वितीयतृतीयभङ्गदोषा न चाऽऽमोति, प्रथमभङ्गवर्त्तिनि आचार्यस्य यथावत् संयतीपरिवर्तने अतिमहती कर्मनिर्जरा इति ॥ ४ ॥
तथा च आचायोपाध्यादीनां तन्नयनसंवादकं श्रीआचाराङ्गसूत्रे ( ३५२ पत्रे ); तथाहि
" से भिक्खू वा भिक्खूणी वा आयरियउवज्झाएहिं सद्धिं गामाणुगामं दूइजमाणे नो आयरियउवज्झायस्स हत्थेण वा हत्थं जाव अणासायमाणे आयरियउवज्झाएहिं सद्धिं जाव दुइज्जेज्ज वा ।” इत्यादि ॥ ५ ॥
महानिशीथेsपि (अष्टमोद्देशके ) साध्वीभिः समं साधूनां विहारः निषिद्धः - तथाहि
67
For Private & Personal Use Only
w.jainelibrary.org