SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ COSTESSUPOSSESSORIES चित्तां शोकेन १ हप्तचित्तां हर्षेण २ यक्षाविष्टां-देवताधिष्ठितां ३ उन्मादप्राप्तां वातादिना ४ उपसर्गप्राप्तां तिर्यमनुष्यादिना नीयमानां ५ साधिकरणां कलहयन्तीं ६, षद्भिः स्थानः वक्ष्यमाणैः निर्ग्रन्थाः-साधवो निर्ग्रन्थ्याः च साध्व्यः तथाविधनिर्ग्रन्थाभावे मिश्राः सन्तः साधर्मिक-समानधर्मयुक्तं साधु इत्यर्थः, 'समायरमाणे'त्ति समाद्रियमाणा:-साधर्मिक प्रति आदरं कुर्वाणाः समाचरन्तो वा उत्पाटनादिव्यवहारविषयीकुर्वन्तो, न अतिक्रामन्ति आज्ञा स्त्रीभिः सह विहार १-स्वाध्याया २-वस्थानादि न कार्य इत्यादिरूपां, पुष्टालम्बनत्वात् इति 'अंतोहिंतो वत्ति गृहादेः मध्याद् बहिर्नयन्तो वाशब्दा विकल्पार्थाः, बाहिहिंतो वत्ति गृहादेः बहिस्तात् निर्बहिः-अत्यन्तबहिः बहिस्तात्तरां नयन्तः, 'उपेक्षमाणा' इति उपेक्षा द्विविधा-व्यापारोपेक्षा अव्यापारोपेक्षा च, तत्र व्यापारोपेक्षया तं उपेक्षमाणाः तद्विषयायां छेदनबन्धनादिकायां समयप्रसिद्धक्रियायां व्याप्रियमाणा इत्यर्थः, अव्यापारोपेक्षया च मृतकस्वजनादिभिः तं सक्रियमाणं उपेक्षमाणाः तत्र उदासीना इत्यर्थः, तथा 'उवासमाण'त्ति पाठान्तरेण 'भयमाण'त्ति वा रात्रिजागरणात् तदुपासनां विदधानाः, 'उवसामेमाणा'त्ति पाठान्तरे तं क्षुद्रव्यन्तराधिष्ठितं समयप्रसिद्धविधिनोपशमयन्त इति, तथा 'अणुन्नवेमाण'त्ति तत्स्वजनादीन् तत्परिष्ठापनाय अनुज्ञापयन्तः, 'तुसिणीए'त्ति तूष्णींभावेन संप्रव्रजन्तः तत्परिष्ठापनार्थ आगमानुज्ञातत्वात् सर्व इदं आज्ञाऽतिक्र-|| माय न भवति इति ।” अत्र स्पष्टमेव साधूनां साध्वीभिः समं विहारो न्यषेधि ॥१॥ तथा पुनर्निषेधमाह-"जे भिक्खू आगंतागारे जाव परिआवहेसु वा एगो एगिथिए सद्धिं विहारं वा करेज सज्झाय | |वा करेज असणं वा पाणं वा खाइमं वा साइमं वा आहारेज उच्चारपासवणं या परिद्ववेइ, अण्णयरं वा (अणारिअं) आणा-| 61 सामा०६ Jain Education Intel For Private & Personal use only Www.jainelibrary.org
SR No.600047
Book TitleSamacharishatakama
Original Sutra AuthorSamaysundar
Author
PublisherJindattsuri Gyanbhandar
Publication Year1939
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy