________________
QALASIASSAGERSARIES
सवाई गाहाई, सत्तावन्नं हवति मत्ताई। पुबद्धए तीसा, सत्तावीसा अपुबद्धे ॥२॥ इति गाथालक्षणं, "ततः दाऊण वंदणतो, पणगाइसु जइसु खामए तिन्नि । किडकम्म किरिआयरि- अमाइ गाहातिगं पढह ॥१॥' इत्येवं शुद्धपाठसद्भावात 'गाहातिग पढइ सड्ढों' इति अयं अपपाठो गाथायाः षष्टिमात्रासद्भावे न मात्रात्रयाधिक्यात्, अत्र उच्यते, अहो ! छन्दःशास्त्रानभिज्ञत्वं विजम्भितं भवतः, यतो 'नंदिअड्डरछंदसिं' गाथायां भेदषटुं उक्तं अस्ति । तथाहि-'गाहो १ गाह २ विगाहो ३ उग्गाहो ४ गाहिणी ५ अ खंधो अ६। छबिह गाहाभेओ, निदिठो नंदिअड्डेण ॥१॥ २३ ॥ षण्णामपि लक्षणं यथा-"गाहो१चउवन्नाए, सत्तावन्नाइ भन्नए गाहा २ । विवरीआ य विगाहा ३, उग्गाहो सहिमत्तो अ४ ॥१॥ गाहिणि बासठ्ठीए, ५ चउसट्ठीए अखंधओ भणिओ ६ । एए छच्च विगप्पा, गाहाछंदमि निद्दिडा ॥२॥" उग्गाहोदाहरणं यथा-"थोसामि सबजगजीववंधवं? अट्ठकम्मनिद्दहणं । असुरसुरनागमहिअं, संतिजिणं सबलोयसंतिकरं ॥१॥" इत्यादि, ततः पष्टिमात्रासद्भावेऽपि उग्गाहनामगाथारूपत्वात् 'गहातिगं पढइ सडोत्ति' पाठः सङ्गतिं अङ्गति । गाथात्रिकं श्राद्धैः एव पठितव्यश्च न साधुभिरिति ॥ ननु-श्रीदेवसूरिकृतयतिदिनचर्यायां "भावेण य देहेण य, अब्भुट्ठाणं करंति वंदणयं । खामण वंदणगाहा-तीअ भणंति त्ति उस्सग्गा ॥१३७ ॥” इति १३७ तमगाथायां साधूनां कथं गाथात्रयपठनमुकम् ? उच्यते-इदं खलु मतान्तरं किश्चिद् अवसेयम्, तदीयसामाचारीविशेषो वा, यतः तट्टीकायां तथैव उक्तम् ॥ तथा च तट्टीकापाठः,-"कृतवन्दनः पश्चात् पादैः अवग्रहात् बहिर्निगत्य "आयरिय उवज्झाए" इति गाथात्रयं पठति, केषां'सव्वाए गाहाए सत्तावणाइ होति मत्ताई। पुब्वद्धम्मि अ तीसा सत्ताईसा परद्धम्मि' ॥ इति मुद्रितपाठेऽपि हस्तलिखितप्रतिकृत्यनुसारेण, मूले पाठ आदृतः।
59
Jain Education Intes
For Private & Personal use only
B
ww.jainelibrary.org