SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ सामा०५ Jain Education Inte अन्योऽपि वित्तो भुवि बुद्धिसागरः पाण्डित्यचारित्रगुणैरनो (नू ) पमैः । शब्दादिलक्ष्मप्रतिपादकानघ - प्रन्थप्रणेता प्रवरः | क्षमावताम् ॥ ३ तयोरिमां शिष्यवरस्य वाक्याद्, वृत्तिं व्यधात् श्रीजिनचन्द्रसूरेः । शिष्यस्तयोरेव विमुग्धबुद्धिर्यन्थार्थबोधेऽभयदेवसूरिः ॥ ४ ॥ बोधो न शास्त्रार्थगतोऽस्ति तादृशो, न तादृशी वाक्पटुतास्ति मे तथा । न चास्ति टीकेह न वृद्धनिर्मिता, हेतुः परं मेऽत्र कृतौ विभोर्वचः ॥ ५ ॥ यदिह किमपि दृब्धं बुद्धिमान्द्याद्विरुद्धं मयि विहितकृपास्तद्धी - धनाः शोधयन्तु । निपुणमतिमतोऽपि प्रायशः सावृतेः स्यात्, न हि न मतिविमोहः किं पुनर्मादृशस्य ॥ ६ ॥ चतुरधिकविशातियुते, वर्षसहस्रे शते च सिद्धेयम् । धवलकपुरे वसतौ, धनपत्योर्बकुल बंदिकयोः ॥ ७ ॥ अणहिलपाटकनगरे, संघवरैर्वर्तमानबुधमुख्यैः । श्रीद्रोणाचार्यै- विद्वद्भिः शोषिता चेति” ॥ ८ ॥ इत्यादि । एवं एषा एव गुरुपरम्परा श्री अभयदेवसूरिभिः स्वकृतानेकग्रन्थप्रशस्तौ लिखिताऽस्ति, जिज्ञासुभिः ते ग्रन्था विलोकनीयाः ॥ २० ॥ ननु - अन्यगच्छीयसूरिभिः अपि इदमेव गुरुशिष्यपारम्पर्यं श्रीअभयदेवसूरीणां क्वापि ग्रन्थे लिखितमस्ति ? उच्यतेअनेकेषु ग्रन्थेषु अनेकैः लिखितं वरीवर्ति । तथाहि "जिणवल्लहगणिलिहियं, सुहुमत्थवियारउवमिणं सुयणा । निसुणंतु मुणंतु सयं, परे वि बोहिंतु सोहिंतु ॥ १५२ ॥” व्याख्या- 'जिनवल्लहगणि'त्ति श्रीजिनवल्लभगणिनामकेन मतिमता सकलार्थसङ्ग्राहिस्थानाङ्गाद्यङ्गोपाङ्गपञ्चाशकादिशास्त्र| वृत्तिविधानावाधावदातकीर्त्ति - सुधाधवलितधरामण्डलानां श्रीमदभयदेवसूरीणां शिष्येण लिखितं कर्म्मप्रकृत्यादिगंभीर ५१ For Private & Personal Use Only w.jainelibrary.org
SR No.600047
Book TitleSamacharishatakama
Original Sutra AuthorSamaysundar
Author
PublisherJindattsuri Gyanbhandar
Publication Year1939
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy