SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ सामाचा रीशत कम् । ॥ २४ ॥ Jain Education inter ननु - श्री अभयदेवसूरिभिरपि स्वयं क्वापि ग्रन्थे पूर्वोक्तगुरुशिष्यपरम्परा प्रोक्ताऽस्ति ? उच्यते- बहुशो यतः श्रीस्थानाङ्गवृत्तौ विंशत्यधिकैकादशशतवर्ष ११२० कृतायां द्विशतद्विपञ्चाशदधिकचतुर्दशसहस्र १४२५२ प्रमाणायां प्रान्ते ( पत्रं ५२७ ) उक्तम्, तथाहि - " श्रीस्थानाङ्गस्य महानिधानस्य इव उन्मुद्रणमिव अनुयोगः प्रारभ्यते इति । तच्चन्द्रकुलीनप्रवचनप्रणीता प्रतिबद्धविहारहारिचरित्र - श्रीवर्द्धमान मुनीन्द्रपादोपसेविनः प्रमाणादिव्युत्पादनप्रवणप्रकरणप्रबन्धप्रणायिनः प्रबुद्धप्रतिबन्धकप्रवक्तृप्रवीणाप्रतिहतप्रवचनार्थप्रधानवाक्प्रसरस्य सुविहितमुनिजनमुख्यस्य श्रीजिनेश्वराचार्यस्य तदनुजस्य च व्याकरणादिशास्त्रकर्तुः श्रीबुद्धिसागराचार्यस्य चरणकमलचञ्चरीककल्पेन श्रीमदभयदेवसूरिनाम्ना मया महावीरजिनराजसन्तानवर्त्तिना महाराजवंशजन्मनेव संविग्नमुनिवर्गप्रवरश्रीमद जितसिंहाचार्यान्तेवासि - यशोदेवगणिनामधेयसाधोः उत्तरसाधकस्य इव विद्याक्रियाप्रधानस्य साहाय्येन समर्थितम् ॥ १४ ॥ एवमेव श्रीसमवायाङ्गसूत्रवृत्तिप्रशस्तौ ( १६० पत्रे ) अपि पट्टानुक्रमोऽस्ति, तदर्थिना ते ग्रन्था विलोकनीयाः ॥ १५ ॥ एवमेव श्रीभगवतीवृत्तिप्रशस्तौ ( ९८० पत्रे ) अपि ॥ १६ ॥ एवमेव श्रीज्ञाताधर्मकथावृत्तिप्रशस्तौ ( २५४ पत्रे ) अपि ॥ १७ ॥ एवमेव श्रीअनुत्तरोपपातिकदशावृत्तिप्रशस्तौ ( ८ पत्रे ) अपि ॥ १८ ॥ एवमेव श्रीप्रश्नव्याकरणवृत्तिप्रशस्तौ ( १६५ पत्रे ) अपि ॥ १९ ॥ एवमेव श्रीपञ्चाशवृत्तौ ( ३०१ पत्रेऽपि ) सा एव गुरुपरम्परा, तथाहि - " यस्मिन्नतीते श्रुतसंयमश्रिया - वप्राप्नुवत्यावपरं तथाविधम् । स्वस्या (स्था ) श्रयं संवसतोऽतिदुःस्थिते, श्रीवर्धमानः स यतीश्वरोऽभवत् ॥ १ ॥ शिष्योऽभवत्तस्य जिनेश्वराख्यः, सूरिः कृतानिन्द्यविचित्रशास्त्रः । सदा निरालम्बविहारवर्ती, चन्द्रोपमश्चन्द्रकुलाम्बरस्य ॥ २ ॥ 48 For Private & Personal Use Only नवाङ्गीवृचिकर्त्तृ श्रीअभय देवसूरेः खरतरग च्छेशत्वाधिकारः । ४ ॥ २४ ॥ ww.jainelibrary.org
SR No.600047
Book TitleSamacharishatakama
Original Sutra AuthorSamaysundar
Author
PublisherJindattsuri Gyanbhandar
Publication Year1939
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy