________________
Jain Education Inter
अपि च रुद्रपल्लीयखरतरगच्छाधिपति - श्री अभयदेवसूरयोऽपि अष्टसप्तत्यधिकद्वादशशत १२७८ वर्षकृतद्वाविंशति| शतश्लोकमानजयन्तविजयकाव्यप्रशस्तौ ( १३८ पत्रे ) अमुमेव परम्परां कथयामासुः । तथाहि
“आसीच्चन्द्र कुलाम्बराम्बरमणिः श्रीवर्धमानप्रभोः पादाम्भोरुहचञ्चरीकचरितश्चारित्रिणामग्रणीः । स श्रीसूरिजिनेश्वरत्रिपथगापाथः प्रवाहैरिव, स्वैरं यस्य यशोभरैस्त्रिजगतः पावित्र्यमासूत्रितम् ॥ १ ॥ अभवदभयदेवः सूरिरस्मात् स यस्य, प्रभुरभजत तोषं स्तम्भने पार्श्वनाथः । प्रकटितविकटार्थं सङ्घसाम्राज्यवृद्ध्यै व्यधित निधिसमानां यश्च वृत्तिं नवाजयाः ॥ २ ॥ तच्छिष्यो जिनवल्लभः प्रभुरभूद्विश्वम्भराभामिनी भास्वद्भालललामकोमलयशः स्तोमः शमारामभूः । यस्य श्रीनरवर्मभूपतिशिरःकोटीररत्नाङ्कुर - ज्योतिर्जालजलैरपुष्यत सदा पादारविन्दद्वयी ॥ ३ ॥ अत्रापि सूरिगुरुपरंपरायामेव चन्द्रकुले श्रीवर्द्धमान सूरिर्बभूव, तच्छिष्यः श्रीजिनेश्वरंसूरिः तस्य शिष्यः श्रीस्तंभनपार्श्वनाथमूर्तिप्रकटको नवांगीवृत्तिकारकः श्री अभयैदेवसूरिः, 'तच्छिष्या श्रीजिनवल्लभसूरिः' इत्यादिनवपद्यानि ॥ ८ ॥
पुनः श्रीरुद्रपल्लीयखरतरगच्छाधिपति - श्रीदेवेन्द्रसूरयोऽपि गुरुशिष्यक्रमं तथैवाऽऽहुः श्रीप्रश्नोत्तररत्नमालावृत्तौ एको| नत्रिंशदधिकचतुर्दशशत १४२९ वर्षकृतायां ( पत्रं ५६७ ); तथाहि - " श्रीवर्धमानजिनशासनमेरुभूषा - भूते सुधर्मगणना| यकभद्रशाले | श्री कोटिकाख्यगण कल्पतरौ सुवज्र - शाखेऽत्र गुच्छ इव राजति चन्द्रगच्छः ॥ १ ॥ तस्मिन् महोज्ज्वलफलोपमितिं दधानः, श्रीवर्धमान इति सूरिवरो बभूव । यस्याऽग्रतः समगृणोद्धरणोरगेन्द्रः, सूरीन्द्रमन्त्र विविधोपनिषत्प्रकारान् ॥ २ ॥ ततोऽस्तदोषो नियतं विवस्वान्, जिनेश्वरः सूरिवरः समासीत् | नो चेत्कथं श्रीधनपालचित्ता - न्महातम -
1
4.5
For Private & Personal Use Only
jainelibrary.org