SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ Jain Education In र्धमानसूरिः बभूव, तस्य द्वौ शिष्यो - श्रीजिनेश्वरसूरिः श्रीबुद्धिसागरश्च, श्रीजिनेश्वरसूरेः त्रयः शिष्याः - श्रीजिनचन्द्रसूरिः, नवाङ्गवृत्तिकारकः श्रीअभयदेवसूरिः, श्रीजिनभद्रसूरिश्व इत्यादि ॥ ३ ॥ एवमेव गुरुपरम्परायां श्रीरुद्रपल्लीयखर तर श्री सङ्घतिलकाचार्या अपि सप्तविंशत्यधिकचतुर्दशशत १४२७ वर्षे कृतायां सम्यक्त्वसप्ततिकावृत्ती ( २३७ पत्रे ) प्रोचिवांसः तथाहि 'श्रीवीरशासनमहोदधितः प्रसूतः, प्रोद्यत्कलाभिरभितः प्रथितः पृथिव्याम् । माद्यन्महः प्रसरनाशिततामसोऽस्ति, श्रीचन्द्रगच्छ इति चन्द्र इवाऽद्भुतश्रीः ॥ १ ॥ तत्राऽऽसीद्धरणेन्द्रवन्द्यचरणः श्रीवर्धमानो गुरु-स्तत्पट्टे च जिनेश्वरः सुविहितश्रेणीशिरः शेखरः । तच्छिष्योऽभयदेवसूरिरभवद्रङ्गन्नवाङ्गी महा - वृत्तिस्तम्भनपार्श्वनाथजिनराड्रमूर्त्तिप्रकाशैककृत् ॥ २ ॥ तत्पट्टपूर्वाचलचूलिकायां, भास्वानिव श्रीजिनवल्लभाख्यः । सच्चक्रसम्बोधनसावधान - बुद्धिः प्रसिद्धो गुरुमुख्य आसीत् ॥ ३ ॥ तच्छिष्यो जिनशेखरो गणधरो जज्ञेऽतिविज्ञाग्रणीस्तत्पादाम्बुजराजहंससदृशः श्रीपद्मचन्द्रः प्रभुः । सत्पट्टाम्बु| धिवर्धने कुवलयप्रोद्यत्प्रबोधैकधीः, श्रीमान् श्रीविजयेन्दुरिन्दुवदभूच्छश्वत् कलालङ्कृतः ॥ ४ ॥ पट्टे तदीयेऽभयदेवसूरि-रासीद्वितीयोऽपि गुणाद्वितीयः । जातो यतोऽयं जयतीह रुद्र-पलीयगच्छः सुतरामतुच्छः ॥ ५ ॥ तत्पादाम्भोजभृङ्गोऽजनि जिनसमयाम्भोजपाथोषिजन्मा, सूरीन्द्रो देवभद्रोऽनुपमशमरमाराममेयोपमानः । तस्याऽन्तेवासि मुख्यः कुमतमतितम| श्वण्डमार्तण्डकल्पः, कल्पटुः कल्पितार्थप्रवितरणविधौ श्रीप्रभानन्दसूरिः ॥ ६ ॥ ज्योतिस्तोमैरमानैः प्रतिहतजगतीवर्त्तितेजस्वितेज- स्फूर्त्ती तत्पट्टपूर्वाचलविमललसन्मौलिमौलीयमानौ । श्रीमान् श्रीचन्द्रसूरिर्विमलशशिगुरुश्चाऽप्रमेयप्रभावौ जातौ 41 For Private & Personal Use Only www.jainelibrary.org
SR No.600047
Book TitleSamacharishatakama
Original Sutra AuthorSamaysundar
Author
PublisherJindattsuri Gyanbhandar
Publication Year1939
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy