SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ ननु-अत्र पूर्वलिखितालापकेषु क्वापि स्थानषटूमुक्तं, क्वापि च वस्तु षट्, परं क्वापि च्यवनगर्भापहारादीनां नामग्राहं कल्याणकशब्दाभिधेयत्वं स्पष्टमुद्दिष्टमस्ति ?, उच्यते-अनेकशः तत्प्रतिपादनात् , यदुक्तं-श्रीचन्द्रकुलाम्बरतरणि-श्रीशीलभद्रसूरिः तच्छिष्यशाकम्भरीयनृपप्रतिबोधकश्रीधर्मघोषसूरिः-तच्छिष्यः श्रीयशोभद्रसूरिः तच्छिष्यः श्रीदेवसेनगणिः तच्छिष्यः श्रीपृथ्वीचन्द्रसूरिः तद्विरचिते श्रीपर्युषणाकल्पटिप्पनके। तथाहि-"हस्त उत्तरो यासां ताः, बहुवचनं बहुकल्याणकापेक्षं” इति ॥१॥पुनरपि श्रीपर्युषणाकल्पाध्ययननिरुक्ते श्रीविक्रमात्तत्त्वगुणेन्दुवर्षे १३२५ निर्मिते श्रीविनयेन्दुसूरयोऽप्य वोचन् । तथाहि-"तेणं कालेणं" इति तस्मिन् काले यः पूर्वतीर्थङ्करैः श्रीवीरस्य च्यवनादिहेतुतिः कथितश्च, यस्मिन् दासमये तीर्थङ्करच्यवनं स एव समय उच्यते, समयः-कालनिर्धारणार्थः, यतः कालो वर्णोऽपि, तथा "हस्त उत्तरो यासां ता हस्तोत्तरा उत्तराफाल्गुन्यः, बहुवचनं बहकल्याणकापेक्षं, तस्यां हि विभोश्च्यवनम् १, गर्भाद्र्भसङ्क्रान्तिः २, जन्म |३, व्रतं ४, केवलं ५, चाऽभवत् , निवृतिस्तु स्वातौ ६, ॥२॥ एवं श्रीजिनप्रभसूरयोऽपि सन्देहविषौषध्यां कल्याणक-15 शब्दं प्रोचुः (पत्रं २), तथाहिHI “पञ्चसु च्यवन १ गर्भापहार २ जन्म ३ दीक्षा ४ ज्ञान ५ कल्याणकेषु हस्तोत्तरा यस्य स तथा, च्यवनादीनि पञ्च उत्तरफाल्गुनिषु जातानि, निर्वाणस्य स्वातौ संभूतत्वादिति भावः" ॥३॥ एवं श्रीसङ्घपट्टकबृहद्वत्तौ (पत्रं ५९६) चैत्र कूटीयमशस्तिसत्ककाव्यव्याख्यानावसरे । तथाहि-"क्षुद्राणां लिङ्गिनां आचीर्णानि सिद्धान्तोक्तमपि श्रीमहावीरस्य षष्ठं गर्भापहारकल्याणकं लजनीयत्वात् न कर्त्तव्यमित्यादिका आचरणाः" ॥४॥पुनरेतत्सम्मतिप्रतिपादिकं गुणचन्द्रकृतप्राकृतवीरचरित्रम् | Jain Education Inte For Private & Personal use only C w .jainelibrary.org
SR No.600047
Book TitleSamacharishatakama
Original Sutra AuthorSamaysundar
Author
PublisherJindattsuri Gyanbhandar
Publication Year1939
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy