SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ सूत्रकृताङ्गवृत्ती 'उद्दिष्टा'शब्दव्याख्याने कल्याणकदिवसेषु पौषधो दर्शितः ॥३॥ सर्वगच्छीयगीतार्थाचरणया च उपधानतपोवहने पौषधग्रहणं लिखितम् ॥४॥ एवमेतैः सूत्रवृत्त्याद्यक्षरैः इमाभिः पूर्वोक्तयुक्तिभिः अनेन च गुरुसम्प्रदायेन पौषधग्रहणनिरूपणं लिखितम् । पुनर्यद्भगवदुक्तं तत्प्रमाणमिति ॥ ॥इति पर्वदिने एव पौषधाचरणाधिकारः॥२॥ ननु-श्रीमहावीरदेवस्य कैश्चित् कल्याणकपश्चकमेव प्रोच्यते, श्रीखरतरगच्छे तु कल्याणकषटुं, तत्र किं सिद्धान्तादिसाक्ष्यम् ? उच्यते-सर्वत्र-सूत्र-चूर्णि-वृत्तिस्वपरगच्छीयप्रकरणादी कल्याणकपदस्य एवं प्ररूपणात् कल्याणकषटमेव । | यदुक्तं-श्रीआचाराङ्गद्वितीयश्रुतस्कन्धे भावनाऽध्ययने-(पत्रं ३८७) तथाहि| "तेणं कालेणं तेणं समएणं समणे भगवं महावीरे पंचहत्थुत्तरे यावि होत्था, तंजहा-हत्थुत्तराहिं चुए चइत्ता गम्भं वकंते १ हत्थुत्तराहिं गम्भाओ गम्भं साहरिए २ हत्थुत्तराहिं जाए ३ हत्युत्तराहिं मुंडे भवित्ता अगाराओ अणगारियं पवइए ४ हत्थुत्तराहिं कसिणे पडिपुण्णे निवाघाए निरावरणे अणंते अणुत्तरे केवलवरनाणदंसणे समुप्पण्णे ५ साइणा भगवं परिनिबुडे० ६" इति सूत्रम् । तद्वत्तिरियम्-'तेणं कालेण'मित्यादि 'तेन कालेने ति दुःक्षमसुषमादिना 'तेन समयेन'इति विवक्षितेन विशिष्टेन कालेन सता उत्पत्त्यादिकमभूदिति सम्बन्धः । तत्र “पंचहत्थुत्तरे आऽवि होत्था" इत्येवमा-14 दिना "आरोग्गारोग्गं पसूया" इत्येवमन्तेन ग्रन्थेन भगवतो श्रीवर्द्धमानस्वामिनो विमानच्यवनं ब्राह्मणीगर्भाधानम् १ ततः शक्रादेशात् त्रिशलागर्भसंहरण २ मुत्पत्ति ३ श्चाभिहिताः, 'तत्थ पंचहत्थुत्तरे होत्थ'त्ति, हस्त उत्तरो यासामुत्तरफाल्गु 31 Jain Education inte For Private & Personal Use Only X w.jainelibrary.org
SR No.600047
Book TitleSamacharishatakama
Original Sutra AuthorSamaysundar
Author
PublisherJindattsuri Gyanbhandar
Publication Year1939
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy