________________
पर्वदिने | पौषधस्य अधिकारः
कम्।
सामाचा- तस्मात् हेतोः पर्वणि एव तस्य पौषधव्रतस्य निष्ठा अपि परिपूर्णत्वं समभूत् , तथा च नन्दस्य पर्वणि एव पौषधग्रहणनिष्ठे रीशत- समुपदिष्टे । अथवा सन्देहदोलावलीबृहद्वत्तौ तु श्रीजिनपालोपाध्यायाः ज्येष्ठपूर्णिमायां पौषधव्रतनिष्ठत्वं प्राहुः (पत्रं ५८)
तथाहि-"जेट्टा-मूलंसि मासंसी" इति, ज्येष्ठपूर्णिमायां अष्टमे भक्के तृतीयदिवसे पर्वणि एव त्रिदेवसिके प्रतिमान्त्यरात्री कायोत्सर्गवत् पौषधस्य संभवात् , कथं नन्दमणिकारदृष्टान्तेन पौषधस्य अपर्वानुष्ठानता? इति, अत्र एकत्रनिष्ठाकालः चतुर्दश्याम् अन्यत्र तु पञ्चदश्यां, ततः कथं न विरोधः? उच्यते-भवतु नाम चतुर्दशी वा पूर्णिमा वा निष्ठाकाले, परं उभयत्राऽपि
पर्वदिनत्वं तु वर्तते एव, अस्माकंन अत्र विचारः । ननु विपाकसूत्रे प्रथमाध्ययने (पृष्ठम् ९३ ) "तते णं से सुबाहुकुमारे |४|| अन्नया कयाई चाउद्दसट्टमुद्दिद्वपुण्णमासिणीसु जेणेव पोसहसाला तेणेव उवागच्छति, उवागच्छित्ता पोसहसालं पमज्जति,
पमज्जित्ता उच्चारपासवणभूमि पडिलेहति, पडिलेहित्ता दब्भसंथारगं संथरति, संथरित्ता दम्भसंथारं दुरूहइ, दुरूहि त्ता अहमभत्तं पगिण्हइ, पगिण्हित्ता पोसहसालाए पोसहिते अहमभत्तिए पोसह पडिजागरमाणे विहरति" इति ॥ सुबाहुकुमारस्य अष्टमः प्रतिपादितः तत्र किं समाधान ? उच्यते-श्रूयतां नन्दमणिकारोदायनवत् सुवाहोरपि अष्टमस्य संभवात् न दोषः, सुबाहुः अन्यदा कस्मिंश्चित् काले अष्टमेन उपवासत्रयेण युतः सन् चतुर्दशी-अष्टमी-उद्दिष्टा-पौर्णमासी-रूपपर्वदिवसेषु पौषधव्रतं अकार्षीत् । पर्वदिनतः प्रागुपवासद्वयं कृतं, चतुर्दश्यादिपर्वदिने तु पौषधव्रतं, न तु चतुर्दश्यादिपर्वदिनं आदितः कृत्वा एकदिनकृतं पौषधं दिनत्रयोऽपि अनुवर्त्तयति, सर्वगच्छीयगीतार्थानां अनभिमतत्वात्, यतः-पौषधस्तु सामायिकाऽवियुतः सामायिककालस्तु उत्कृष्टतोऽपि अष्टप्राहरिकः, यदुक्तं-श्रीश्रीचन्द्रसूरिभिः प्रतिक्रमणसूत्रवृत्ती सामायिकाधि
॥१३॥
Jain Education Intern
26ersonal use only
Soumyainelibrary.org