________________
"अह सुअसमिद्धहेउ, सुअदेवीए करेमि काउसम्र्ग। चिंतेइ नमुक्कार, सुणइ वदेइ व तीइ थुइ ॥२१॥
एवं खेत्तसुरीए, उस्सगं कुणइ सुणइ देइ थई। पढिऊंच पंचमंगलं, उवविसई पमज्ज संडासे ॥२२॥" इत्यादि-श्रीजिनवल्लभसूरिवचनात् उपविश्य च पूर्ववत् विधिना मुखवस्त्रिकां कायं च प्रतिलेख्य श्रीगुरूणां वन्दनके| दत्त्वा इच्छामो अणुसट्ठिमिति भणित्वा जानुभ्यां स्थित्वा कृताञ्जलिर्नमोऽर्हत्सिद्धेतिपूर्वकं स्तुतित्रयं पठति । आह च। “पुबविहिणेव पेहिअ, पुत्तिं दाऊण वंदणं गुरुणो । इच्छामो अणुसढ़ि, ति भणिय जाणूहितो ठाइ ॥ २३ ॥"
इदं वन्दनकद्वयं मङ्गलादि-निमित्तमिति, श्रीतरुणप्रभसूरिकृतबालावबोधे हेतुगर्भे च, तथाहि-इदं च पूर्वोक्तं वन्द-16 नकं दानं श्रीगुर्वाऽऽज्ञया कृतावश्यकस्य विनेयस्य मया युष्माकमाज्ञया प्रतिक्रान्तमिति विज्ञापनार्थ, लोकेऽपि च राजादीनामादेशं विधाय प्रणामपूर्वकं तेषामादेशकरणं निवेद्यते, एवमिहाऽपि ज्ञेयं यदाह| "सुकयं आणतंमि व, लोए काऊण सुकय किइकम्मा । पटुंति आ थुईओ, गुरु थुइगहणे कए तिन्नि ॥१॥"
एतच्च एवं संभाव्यते वन्दनकांश्च ते । 'इच्छामो अणुसद्विमिति' दर्शनाद् एतदर्थश्चाऽयं इच्छामोऽभिलषामोऽनुशास्तिं श्रीगुर्वाज्ञा प्रतिक्रमणकार्यमित्येवंरूपां, तां च वयं कृतवन्तः स्वाभिलाषपूर्वकं, न तु 'राजवेष्ट्यादि' न्यायेन । एवं च प्रतिक्रमणकरणं संपूर्ण समजनि, तस्य निर्विघ्नतया संपूर्णीभवनाच्च संपन्ननिर्भरप्रमोदप्रसराकुला मंगलार्थ वर्धमानस्वरेण वर्धमानाक्षरं श्रीवर्धमानस्तुतित्रयं 'नमोऽस्तु वर्धमाने त्यादिरूपं श्रीगुरुभिरेकस्यां स्तुती, पाक्षिकादिप्रतिक्रमणे श्रीगुरुपर्वणो विशेषबहुमानसूचनार्थे तिसृष्वपि स्तुतिषु भणितासु सतीषु, सर्वे साधवः श्राद्धाश्च युगपत् पठन्ति ।
JainEducation Intem
31955 Personal use only
S
wjainelibrary.org