________________
सामाचारीशतकम्।
श्रावक-प्रतिक्रमण विधिरधिकार
॥१५७॥
चिए चेव १०॥१॥" इति क्रमापेक्षया दशविधप्रायश्चित्ते द्वितीयप्रायश्चित्तरूपं प्रथमप्रायश्चित्तं वालोचनारूप प्राककृतं प्रतिक्रमणमित्यस्य चाऽयमर्थः| "स्वस्थानाद्यत् परस्थानं, प्रमादस्य वशागतः। तत्रैव क्रमणं भूयः, प्रतिक्रमणमुच्यते ॥१॥ । तच्च मिथ्यादुष्कृतादि रूपमुकं च
"पडिक्कमणं १ पडियरणा २, परिहरणा ३ वारणा ४ नियत्तं ५। निंदा ६ गरिहा ७ सोहो ८, पडिक्कमणं अट्टहा होइ ॥१॥" ततः संडासक १ काष्ठासन २ प्रोञ्छनक ३ भूम्यादि ४ प्रमार्जनपूर्व विधिना उपविश्य वामजानुमधो दक्षिणजानुं चोर्ध्व विधाय एकाग्रमनसा इह सर्व परमेष्ठिनमस्कारपूर्वकं कर्म कर्तव्यमित्यादि सर्व पठ्यते समभावस्थेन प्रतिक्रम इत्यतः सामायिकसूत्रं करेमि भंते सामाइयमि' त्यादि उच्चार्यते, तदनन्तरं मङ्गलार्थ 'चत्तारि मंगल'मित्यादि भण्यते, अथ देवसिकायतिचाराणामोघालोचनार्थ 'इच्छामि पडिक्कमिडं जो मे देवसिओ कओं' इत्याद्यभिधीयते, विभागालोचनार्थ तु गमनागमनातिचारप्रतिक्रमणरूपा ईर्यापथिकी अनुविशेषोऽशेषातिचारप्रतिक्रमणार्थ मूलसाधुप्रतिक्रमणसूत्रं पठ्यते, श्राद्धस्तु आचरणादिना नमस्कार १ करेमि भंते सामाइयं २ इच्छामि पडिक्कमिड ३ इति सूत्रपूर्वकं श्राद्धप्रतिक्रमणसूत्रं योगशास्त्रवृत्त्यनुसारेण 'तं निंदे तं च गरिहामी ति' पर्यन्तं ४५ गाथाप्रमाणं सूत्रं पठति, तदनु सकलातिचारभारनिवृस्याऽपगततद्भारो लघु त उत्तिष्ठति, तथाहि-"कयपावोवि मणूसो, आलोइय निंदिय गुरुसगासे । होइ अइरेगलओ, ओहरिअभरुव भारवहो॥४०॥"एवं द्रव्यतो भावतश्चोत्थाय 'अब्भुद्विओ' इत्यादि सूत्रं प्रान्तं यावत् पठति, आह च
CARLOSOSAOSASSA RISASIE
*॥१५७॥
Jain Education Inter
For Private & Personal use only
jainelibrary.org