________________
सामाचारीशत
कम्।
श्रावकमहे-देवतावसरस्थापनाधिकारः
॥१५३॥
ष्ठालाभोपदेशं च श्रुत्वा सर्वेऽपि स्वस्थानं व्रजन्ति, ततो दिनदशकं यावत स्तूपपूजा कार्या नैवेद्यो मुच्यते, भोगश्चोक्षिप्यते, प्रतिष्ठाकारकश्च दशदिनानि एकाशनं करोति, शीलवतं च पालयति ॥८१॥
॥ इति गुरुस्तूपप्रतिष्ठाविधिरधिकारः॥८१॥ ननु-श्रावकाणां गृहे देवतासरः कुत्र स्थाप्यते?, केन विधिना श्रावकाः पूजां कुर्वन्ति ? उच्यते-तत्राऽर्थे श्रीउमास्वातिवाचककृतं पूजाप्रकरणमेव प्रमाणं, तच्चेदं-"स्नानं पूर्वोन्मुखीभूय, प्रतीच्यां दन्तशोधनम् । उदीच्यां श्वेतवस्त्राणि, पूजा पूर्वोत्तरामुखी ॥१॥ गृहे प्रविशतां वाम-भागे स्वल्पविवर्जिते । देवतावसरं कुर्यात्, सार्धहस्तोव॑भूमिके ॥२॥ नीचैभूमिस्थितिं कुर्याद्, देवतावसरं यदि । नीचैर्नीचैस्ततोऽवश्यं, सन्तत्याऽपि समं भवेत् ॥३॥ तथाऽर्चकः स्यात्पूर्वस्या, उत्तरस्या च संमुखम् । दक्षिणस्या दिशो वर्जी, विदिग्वर्जक एव च ॥ ४॥ पश्चिमाभिमुखः कुर्यात् , पूजां च जिनमूर्तये । तदा स्यात् सन्ततिच्छेदो, दक्षिणस्यामसन्ततिः॥५॥ आग्नेय्यां तु यदा पूजा, धनहानिर्दिने दिने । वायव्यां सन्तति व नैऋत्यां च कुलक्षयः ॥ ६॥ ऐशान्यां संमुखः किंचित्, सन्तति व जायते । अनिजानुकरांसेषु, मूर्ध्नि पूजा यथाक्रमम् ॥७॥ भाले कण्ठे हृदम्भोजे, उदरे तिलकं तथा। तथा] नवभिस्तिलकैः पूजा, करणीया निरन्तरम् ॥८॥श्रीचन्दनं विना नैव, पूजां कुर्यात् कदाचन । प्रभाते प्रथमं वास-पूजा कार्या विचक्षणैः ॥९॥ मध्याहे कुसुमैः पूजा, सन्ध्यायां || दीपधूपयुक् । वामाङ्गे धूपदाहः स्या-दग्रपूजाऽत्र संमुखी ॥१०॥ अहंतो दक्षिणे भागे, दीपस्य च निवेशनम् । ध्यान तु दक्षिणे भागे, चैत्यानां वन्दनं तथा ॥११॥ हस्तात्प्रस्खलितं क्षितौ निपतितं लग्नं क्वचित पादयो-यन्मोर्ध्वगतं धुतं ||
॥१५३॥
For Private & Personal Use Only
IM
w
Jain Education in
.jainelibrary.org