________________
सामाचारीशतकम् ।
•6448
चैत्रपूर्णिमा-देव
न्दना|धिकारः
॥१५२॥
स्तवभणनं, ततो दशनमस्कार-कथनानन्तरं श्रीशत्रुञ्जयपुण्डरीकाराधनार्थ “करेमिकाउस्सग्ग"मित्यादि विधिपूर्व कायोत्सर्गस्तत्र दशलोगस्स चिन्त्यते पारिते लो० १ दशगाथाप्रमाणं स्तोत्रं च, एवमेका पूजा जाता १ इत्थमेव द्वितीया २ तृतीया ३ चतुर्थी ४ पञ्चमी च ५ पूजा कार्या, विशेषतस्तु तत्र अयम्-द्वितीया पूजा जाता २ तस्यां द्वितीयपूजायां विंशतिनमस्काराः विंशतिपुष्पमाला विंशतिवस्तुढौकनं च कार्य, पूर्वविधिना कायोत्सर्गकरणं लोगस्स २० चिन्तनं पारितेच एका लोग विंशति २० गाथास्तोत्रं चेति द्वितीया पूजा जाता २। तृतीयपूजायां त्रिंशत् नमस्काराः३० त्रिंशत् ३० पुष्पाणि ३० त्रिंशद्वस्तु ढौकनं त्रिशल्लोगस्स ३० कायोत्सर्गः पूर्ववत्रिंशद्गाथास्तोत्रं ३० चेति तृतीयपूजा जाता ३ । चतुर्थपूजायां चत्वारिंशत् नमस्काराः, चत्वारिंशत् पुष्पाणि, चत्वारिंशद् वस्तुढौकनं कायोत्सर्गे चत्वारिंशत् लोगस्स चिन्तनं पारिते एकलोगस्स चत्वारिंशद्गाथास्तोत्रं इति चतुर्थीपूजा जाता ४ । पञ्चमपूजायां पञ्चाशनमस्काराः ५० पश्चाशत्पुष्पाणि ५० पश्चाशद्वस्तु ५० दौकनं पञ्चाशल्लोगस्स ५० कायोत्सर्गः पारिते एक १ लोगस्स पञ्चाशद्गाथास्तोत्रं ५० चेति पञ्चमीपूजा जाता५। पूजायां पूजायां प्रान्ते क्वापि देशैः कैरपि दशादिजूत्कृतयोऽपि कार्यन्ते तथा पूजा पञ्चकानन्तरं एकैकपूजानन्तरं वा यथाशक्ति यथासंभवं महाध्वजारोपः संघाधिपेन कार्यः, तत्राऽऽरात्रिक १ मङ्गलप्रदीप २ गुरुभक्ति ३ संघभक्ति ४ साधर्मिकवात्सल्य ५ संघपतितिलक ६ कर्तव्यानि कार्याणि, प्रान्ते धर्मोपदेशे शत्रुञ्जयमाहात्म्यवर्णनं ॥
॥इति चैत्रपूर्णिमादेववन्दनविधिरधिकारः॥८॥ ननु-गुरूणां स्तूपस्य प्रतिमायाश्च प्रतिष्ठा क्रियते, तत्र को विधिः प्रतिपादितोऽस्ति ? उच्यते-अत्र गुरुपरम्परागत
गुरुस्तूपप्रतिमा-प्रतिष्ठाधिकारः
A%
%
॥१५२॥
A
ww.jainelibrary.org
Jain Education inte
For Private & Personal Use Only
304