________________
Jain Education Inter
“उक्कोसेण दुवालस चंदो जहन्नेण पोरिसी अट्ट । सूरो जहन्न बारस, पोरिसि उक्कोस दो अट्ठा ॥ १ ॥ सग्गहनिवुड्डु एवं, सूराई जेण होतहोरत्ता | आइन्नं दिणमुक्के, सो वि य दिवसों अराई अ ॥ २ ॥” अकाले स्वाध्यायकरणे दूषणं श्रीस्थानाङ्गचतुर्थस्थानके द्वितीयोदेशकोक्तं यथा - ( २१४ पत्रे )
"सुअनाणंमि अभत्ती १ लोगविरुद्धं २ पमत्तछलणा य ३ । विज्जासाहणवेगुण्णधम्मया एव मा कुणसु ॥ १ ॥ " इत्यादि इदमस्वाध्यायस्वरूपं, श्रीविधिप्रपा १ श्रीआवश्यकवृत्त्यनुसारेण लिखितमस्ति, पुनर्विशेषार्थिना श्रीआवश्यकबृहद्वृत्ति - श्रीप्रवचनसारोद्धारप्रमुखाः ग्रन्थाः विलोकनीयाः ॥ ७९ ॥
॥ इत्यस्वाध्यायविचाराधिकारः ॥ ७९ ॥
ननु - चैत्र पूर्णिमायां श्रीशत्रुंजयस्थापनां विधाय मध्याह्ने कथं पुण्डरीकदेववन्दना विधीयते ? उच्यते-अत्राऽयं संप्रदायः - प्रथमं वेलासद्भावे सर्वविधिप्रान्ते वा श्रीपाक्षिकपर्ववत् पञ्चशक्रस्तवैः देवान् वन्दयित्वा विंशतिसहस्र २०००० जापः "श्रीसिद्धक्षेत्र पुण्डरीकाय नमः” इति कार्यः, ततो देवगृहमध्ये धर्मशालायां वा अक्षतचन्दनादिभिः श्रीशत्रुञ्जयस्थापना कार्या ततः तदन्त- पट्टाद्युपरि श्रीआदिनाथस्य श्रीपुण्डरीकस्य च विम्बस्थापना कर्तव्या, ततः श्रीशत्रुञ्जयं नमस्कृत्य सर्वसंघेन | मुक्ताफलादिभिः तीर्थवर्धापनं कार्यं, ततः प्रदक्षिणात्रयं दातव्यं, ततः प्रथममष्टमङ्गलढौकनं मूलनायकस्त्रात्रं च कार्य, ततः सर्वोऽपि संघ ऊर्ध्वभूय दशनमस्कारोच्चारपूर्वं दशपुष्पमालापूजां कुर्यात्, ततो दशतिलकानि करोति, यथाशक्ति पूगीफ| लनालिकेरादि दश दश वस्तूनि ढौकयति, नालिकेरमेरुभरणं धूपोत्क्षेपः कर्पूरधूपः ततो देववन्दनं पञ्चशक्रस्तवैः, ततः शक्र
For P303 rsonal Use Only
www.jainelibrary.org