SearchBrowseAboutContactDonate
Page Preview
Page 303
Loading...
Download File
Download File
Page Text
________________ उन्मृष्टरिष्टदुष्ट-ग्रहगतिदुःस्वादुनिमित्तादि । संपादितहितसंपत्-नामग्रहणं जयति शान्तः ॥१॥ एवं श्लोकमेकवारं पठित्वा भूमौ वामपाद आहन्यते, एवं वारत्रयं श्लोकमेनं पठित्वा भूमौ पाद आहन्तव्यः । भोजनादि क्रियते ॥७॥ ॥इति घृतपतने तद्दोषनिवारणविधिरधिकारः ॥७५ ॥ ननु-पाक्षिक-चातुर्मासिक-सांवत्सरिकप्रतिक्रमणेषु क्रियमाणेषु यदि क्षुद् भवेत् , तदा किं तत् दोषनिवारणं कार्य ? 8 उच्यते-अत्र स्वगच्छसामाचारीविधिपत्रे एवं लिखितमस्ति, तथाहि-पाक्षिक-चातुर्मासिक-सांवत्सरिकप्रतिक्रमणानां मुखवस्त्रिकाप्रतिलेखनामारभ्य ततः प्रान्तक्षामणां यावत् यदि शुजाता भवति, तदा संपूर्णप्रतिक्रमणकरणानन्तरं पूर्ववत् । अपशकुनकायोत्सर्गत्रयं कार्य, नवरं पाक्षिकप्रतिक्रमणे क्षुत्करणे पंचदश दिनानि यावत् विशेषतस्तपः कार्य । एवं चातुर्मासिकप्रतिक्रमणे क्षुत्करणे चतुरो मासान् , सांवत्सरिकप्रतिक्रमणे क्षुत्करणे वर्ष यावत् विशेषतस्तपः कार्य । यदि च साधुः साध्वी वा क्षौति, तदा शक्तिसंभवे लोचं कारयेदिति । ननु-सांप्रतं तु जयतिहुयणनमस्कारं प्रारभ्य यावत् शान्तिप्रान्ते जय वीरायेति न कथ्यते, तावन्तं कालं क्षुत्करणे शंकादोषं गणयन्ति, तत्कथं ? उच्यते-नेयं शास्त्रसंमतिः नाऽपि च गुरुक्रमः, ततोऽयं शंकादोषः स्वमनःकल्पितत्वेन न प्रमाणं, किंतु अविचारितपौर्वापर्यो गडुरिकाप्रवाह एवेति ॥ ॥इति क्षुत्करणे तद्दोषनिवारणविधिरधिकारः ॥ ७६ ॥ ननु-यदि दैवसिक १ रात्रिक २ पाक्षिक ३ चातुर्मासिक ४ सांवत्सरिक ५ प्रतिक्रमणानां पञ्चानामपि मध्ये मार्जारी Viljainelibrary.org Jain Education Inter 295
SR No.600047
Book TitleSamacharishatakama
Original Sutra AuthorSamaysundar
Author
PublisherJindattsuri Gyanbhandar
Publication Year1939
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy