________________
Jain Education Intern
महत्तराया नगरप्रवेशे श्राविकाः केवलाः संमुखमागच्छन्ति, श्रावका नाऽऽगच्छन्ति, श्राविका गीतं न गायन्ति, मङ्गलकलशो नाऽऽगच्छति [ नाऽऽनीयते ], देवगृहप्रवेशे गीतशङ्खनिउञ्छनादिकं किमपि न क्रियते, पृष्ठपट्टे च कम्ब लिका वस्त्रं दीयते, उपवेशने कम्बलद्वयं दीयते ॥ ६ ॥
प्रवर्तिन्याः पृष्ठपट्टो लघुः कम्बलिकादि रहितः क्रियते, उपवेशने एकः कम्बलः, इति महत्तरा - प्रवर्तिन्योः संक्षेपेण प्रतिपत्तिः ॥ ७ ॥
अनेन विधिना प्रवर्तमानस्य सकलसंघस्य सर्वं भव्यं भविष्यति । अयं पदस्थानां विधिः विचारसारे लिखितोऽस्ति, परमयं विधिजिर्णत्वाद् व्यवच्छिन्नप्रायः, सांप्रतं तु सांप्रतीना गच्छाधिपति १ सामान्याचार्यो २ पाध्याय ३ वाचनाचार्य ४ महत्तरा ५ प्रवर्तिन्यो ६ भिन्नेनैव विधिना व्यवस्थां विनैव प्रवर्तमाना दृश्यन्ते ॥ ६९ ॥
॥ इति पदस्थानां व्यस्थाविधिरधिकारः ॥ ६९ ॥
ननु - सिद्धान्तानुयोगस्य तत् विसर्जनस्य च को विधिः । उच्यते
प्रथमं मुखवस्त्रिकां प्रतिलेख्य वन्दनकद्वयं दीयते, पश्चात् क्षमाश्रमणपूर्व “अनुयोगं संदिसावेह अनुयोगं पडिगाह
१ व्यवस्थापत्रकं विविधप्रकारं प्रत्यावरे दृश्यते इति ।
287s Personal Use Only
w.jainelibrary.org