________________
सामा० २४॥ |
Jain Education Inter
ननु-श्राविका श्रावको वा यदा मुखवस्त्रिकोपरि वन्दनकं ददते तदा एकपट्टाया मुखवस्त्रिकाया उपरि तत् दानं घटामाटीकते ?, किंवा द्विपट्टाया उपरि ? उच्यते - एकपट्टायाः, न द्विपट्टायाः, यतो वन्दनकावसरे पूज्यपादयुग्म कल्पना मुखवस्त्रिकाया मध्यभागे कथिताऽस्ति । द्विपट्टायास्तस्या उपरि वन्दनकदाने मुखवस्त्रिकाया मध्यभागो न भवति किन्तु चतुर्थभागः, स तु विरुद्धो ग्रन्थेऽप्रतिपादनात् तस्या मध्यभागे वन्दनकदानं तु श्रीअभयदेवसूरिकृतवन्दनकभाष्ये प्रोक्तमस्ति, तथाहि
“तह वि छिनं वामयजाणुं नमिऊण तत्थ मुहपुत्तिं । रयहरणमज्झभागंमि ठावऍ पुज्जपायजुगं ॥ १ ॥ एवं सुसावओ विहु दुवाल सावत्तवंदणं दिंत्तो । मुहपुत्तिमज्झभागंमि ठावऍ पुज्जपायजुगं ॥ २ ॥ ॥ इत्येकपट्टमुखवस्त्रिकोपरि वन्दनकदानाधिकारः ॥ ६८ ॥
ननु - श्रीखरतरगच्छे पदस्थानां व्यवस्थाविधिः कोऽपि प्राक्तनोऽस्ति न वा ? उच्यते-अस्तीति । तथाहि
श्रीयुग प्रधानाचार्यस्य गच्छाधिपतेः पाञ्चजन्यशब्दवादनादिना प्रवेशः क्रियते, निउंछनं च क्रियते, मङ्गलकलशः सम्मुखमागच्छति [ आनीयते ], व्याख्याने कृते सति श्राविका गीतं गायन्ति इति संक्षेपेण श्रीयुगप्रधानाचार्यस्य प्रतिपतिः ॥ १ ॥
द्वितीयस्थानीय - सामान्याचार्यस्य नगर प्रवेशे चतुर्विधसंघः सम्मुखं आगच्छति,
शङ्खो वाद्यते, श्राविकाश्च गीतं
285 & Personal Use Only
www.jainelibrary.org