SearchBrowseAboutContactDonate
Page Preview
Page 291
Loading...
Download File
Download File
Page Text
________________ किमपि न आनायं किं तु संघाटकं प्रति पृष्ट्वा । ८विंशति वर्षपर्यायं विना योगपट्टादिन ग्राह्यं । ९। सन्निधिधारणवर्जनं । १० । संस्तारके सामान्यतपोधनस्य कम्बलिका निषिद्धा ग्लानवर्ज । ११ । कीतादिना वस्त्रादि अपूर्व न आनाय्यं ।। १२ । सागारिकसमक्षं गाढकलहे आचाम्लं अज्ञाते निर्विकृतिकं । १३ । सागारिकेभ्यो याचकेभ्यश्च निजान्नपानादि न देयं । १४ । उपाध्यायवाचनाचार्ययोः मण्यक्षपूजानिषेधः । १५। गुरोराज्ञया विहारो गमनागमनादिकं । १६ ।। उपाध्यायवाचनाचार्याणां प्रावृतानामेव उपयोगकरणं आचार्यवत् । १७ । उपाध्यायवाचनाचार्याणां आरात्रिकावतारणं न । १८ । प्रथमदिने आचार्योपाध्यायवाचनाचार्यः यथाज्येष्ठं रात्रिकं पादशौचं कार्य । १९। उपाध्यायवाचनाचार्याणां पृष्ठपट्टे कम्बलं वस्त्रं च नाऽस्ति । २० । भोजनकाले आचार्योपाध्यायाने पट्टकं धार्य, न वाचनाचार्याग्रे । २१ । व्याख्यानारम्भे गच्छाधिपतेः नमस्कारकथनं प्रतिक्रमणे तन्नाम कथनं च । २२। दीक्षादानं मूलगुरोस्तदाज्ञया आचार्याणां च ॥२३ । सागारिकदृष्टौ उच्छोञ्छनाभ्यंगनिषेधोऽन्यत्र हस्तपादमुखशौचात् ।२४। वर्षाचतुर्मास्यां एका विकृतिः वीरकल्याणके च बालग्लानवर्ज । २५ । राद्धकाचरनिषेधः।२६। देवस्वं ज्ञानस्वं च न काऽपि व्यापार्य देवकार्यादन्यत्र । २७ ।। पूर्णिमाऽमावास्योः नन्दीश्वरदेववन्दनं । २८ । कार्तिकचातुर्मासिकं पारणं बहिर्विघेयं यतनया । २९ । गुरुरूपद्रव्यमपि देवस्व-ज्ञानस्ववत् । ३० । अकाले संज्ञायां यथा उपवासः प्रवेश्यः । ३१ । अष्टमीचतुर्दश्योः पादशौचवर्ज उच्छोलना-2 ६ निषेधः करणे उपवासः । ३२ । उत्सर्गेण दुग्धनिषेधः यः कश्चित् लंघयिष्यति तस्याज्ञाभंगः इति ॥ ३३ ॥ ॥ इति व्यवस्थापत्राधिकारः॥६५॥ Jain Education liter 283vate & Personal use Only w ww.jainelibrary.org
SR No.600047
Book TitleSamacharishatakama
Original Sutra AuthorSamaysundar
Author
PublisherJindattsuri Gyanbhandar
Publication Year1939
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy