________________
आवश्यकचूर्णिकारोऽप्याह-प्रहरदिवसोऽर्धरात्रप्रहरं यावत् दिवसो वइ०, रात्रिप्रहरार्धदिवसप्रहरं यावत् राइ अव०, पादोसिए जाव पोरिसी न उग्घाडेति ताव देवसि भण्णइ, पुषण्हे जाव पोरिसी न उग्घाडेइ ताव राइअंति।" एवं विचारसारग्रन्थेऽपि, तथाहि “देवसिअपडिक्कमणं, सुज्झइ रयणीइ जाव पढम पहरं । राइअमह उग्घाडा-पोरिसिमुव जाव पुरिमहूं ॥१॥” इत्यादि । एवमेव ओघनियुक्तिसूत्रवृत्तौ ॥
॥ इति दैवसिकरात्रिकप्रतिक्रमणं कियत् कालं यावच्छध्यतीति [अधिकारः] विचारः ॥ ५९॥ ६ ननु-पञ्चम्याः पर्वत्वं क्व प्रोक्तमस्ति ?, येन तत्र विशेषतः पुण्यकर्तव्यानि क्रियमाणानि सन्ति, उच्यते-पर्युषणाचूर्णौ | | तस्याः पर्वत्वेनोक्तत्वात् , तथाहि-"इत्थ उ पणगं पणगं, कारणिअं जा सवीसईमासो । सुद्धदसमीठिआणं व आसाढी पुण्णिमोसरणं॥१॥ आसाढपुण्णिमाए, ठिआणं जदि डगलाईणि गहियाणि पज्जोसवणाकप्पो अकहिओ तो सावणबहुलपं चमीए पजोसवंति । असति खित्ते सावणबहुलदसमीए, असति खित्ते सावणबहुलस्य पन्नरसीए । एवं पंच पंच ओसारं तेणं जाव असति भद्दवयसुद्धपंचमीए, अओ परेणं न वट्टइ। अइक्कमेउं आसाढपुण्णिमाओ आढत्तं मग्गंताणं जाव भदवयजोण्हस्स पंचमीए । इत्थंतरे जइ न लद्धं ताहे जइ रुक्खाहे ठितो तोऽवि पज्जोसवेअवं । एएसु पबेसु जहा लेंभे पज्जोसवेअब अप्पवे न वट्टइ, कारणिआ चउत्थीवि अजकालमायरिएहिं पवत्तिआ।" इति ( ३२ पत्रे) एवं श्रीनिशीथचूर्णों दशमोद्देशके ३१७ पत्रेऽपि, तथाहि
TOOSSASALSAARISSA
Jain Education inte
267spersonal use only
Hijainelibrary.org