SearchBrowseAboutContactDonate
Page Preview
Page 271
Loading...
Download File
Download File
Page Text
________________ Jain Education Inter वासासु पुणो तिपहरुवरिं ॥ ५ ॥ प्रवचनसारोद्धारसूत्रेऽपि षट्त्रिंशदधिकशत १३६ द्वारे ( २५५ पत्रे ) इदमेव गाथाद्वयमन्तिमं तथाहि “उसिणोदगं तिदंडु-क्कलिअं फासुअजलंति जइकप्पं । नवरि गिलाणाइकए, पहरतिगोवरिवि धरिअवं ॥ ८८१ ॥ जायइ सचित्तया से गिम्हंमि पहरपंचगस्सुवरिं । चउपहरोवरि सिसिरे, वासासु पुणो तिपहरुवरिं ।। ८८२ ॥” तद्वृत्तिर्यथा-त्रिभिर्दण्डैः उत्कालैः उत्कालितं - आवृत्तं यदुष्णोदकं तथा यत्प्रासुकं स्वकायपरकायशखोपहतत्वेन अचि - त्तीभूतं जलं तदेव यतीनां कल्प्यं ग्रहीतुं उचितं । इह किल प्रथमे दण्डे जायमाने कश्चित्परिणमति कश्चिन्न इति मिश्रः १, द्वितीये प्रभूतः परिणमति स्तोकोऽवतिष्ठते २ तृतीये तु सर्वोऽप्कायोऽअचित्तो भवतीति त्रिदण्डग्रहणं, इदं च सर्वमपि प्रहरत्रयमध्ये एव उपभोक्तव्यं, प्रहरत्रयादूर्ध्वं पुनः कालातिक्रान्तदोषसंभवेन उपभोगानर्हत्वान्न धारणीयं, नवरं - केवलं ग्लानादिकृते - ग्लानवृद्धादीनामर्थाय प्रहरत्रिकादप्यूर्ध्व धर्तव्यमिति ॥ ८८१ ॥ ' जाये'त्यादि, जायते - भवति सचित्तता 'से'त्ति, तस्य उष्णोदकस्य - प्रासुकजलस्य वा ग्लानाद्यर्थं घृतस्य 'ग्रीष्मे' उष्णकाले प्रहरपञ्चकस्योपरि-प्रहरपञ्चकादूर्ध्व कालस्याऽतिरूक्षत्वात् चिरेणैव जीवसंसक्तिसद्भावात्, तथा शिशिरे शीतकाले कालस्य स्निग्धत्वात् प्रहरचतुष्टयादूर्ध्व सचित्तता भवति, वर्षासु - वर्षाकाले पुनः कालस्य अतिस्निग्धत्वात् प्रासुकीभूतमपि जलं भूयः प्रहरत्रयादूर्ध्वं सचित्ती - भवति, तदूर्ध्वमपि यदि धियते तदा क्षारः प्रक्षेपणीयो येन भूयः सचित्तं न भवति, इति ॥ ८८२ ॥ पुनः श्रीदशवैका 263 Private & Personal Use Only www.jainelibrary.org
SR No.600047
Book TitleSamacharishatakama
Original Sutra AuthorSamaysundar
Author
PublisherJindattsuri Gyanbhandar
Publication Year1939
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy