________________
HOLASTUSKISSASSOS
निषीदन्ति, तेषां गवादीनां च यः कोऽपि पृष्ठादिगात्रोमा तेन वा परिणामो भवति, तथा यो यस्य भौमादिकः || पृथिव्यादिकः आहारस्तव्यवच्छेदे तस्य परिणाम उपक्रमः शस्त्रं, "उपक्रम्यते जीवादीनां आयूंषि अनेन" इति व्युत्पत्तेः, तच्च शस्त्रं त्रेधा, स्वकायशस्त्रं परकायशस्त्रं तदुभयशस्त्रं चेति, तत्र स्वकायशस्त्रं यथा-लवणोदकं मधुरोदकस्य, कृष्णभौमं वा पांडुरा भौमस्येति, परकायशस्त्रं यथा-अग्निः उदकस्य, उदकं चाऽग्नेरिति २ तदुभयशस्त्रं यथाउदकमृत्तिका शुद्धोदकस्येत्यादि । एवमादीनि सचित्तवस्तुनां परिणमनकारणानि मन्तव्यानि, गतं क्षेत्रतो लक्षणम् । अथ कालत आह___"उप्पलपउमाई पुण, उण्हे दिन्नाइ जाम न धरती । मुग्गरगजूहिआओ, उण्हे छूढा चिरं ति ॥१॥ ना मगदंतीपुप्फाई, उदए छूढाइ जाम न धरती । उप्पलपउमाई पुण, उदए छूढा चिरं हुंति ॥२॥" उत्पलानि पद्मानि च उदकयोनिकत्वात् , उष्णे आतपे दत्तानि याम-प्रहरमात्रं कालं न ध्रियन्ते न अवतिष्ठन्ते, किंतु प्रहरादर्वागेव अचित्तीभवन्ति, मुद्राणि मगदंतिपुष्पाणि-यूथिकापुष्पाणि च उष्णयोनिकत्वात् , उष्णे क्षिप्तानि चिरमपि कालं भवन्ति सचित्तानि एव तिष्ठन्तीति भावः। मगदन्तिकापुष्पाणि उष्णे | उष्णोदके] क्षिप्तानि याम-प्रहरमात्रमपि न ध्रियन्ते, |उत्पलपद्मानि पुनः उदके क्षिप्तानि चिरमपि भवन्ति, गतं कालतो लक्षणम् ॥
अथ भावत आह,-"पत्ताणं पुप्फाणं, सरडफलाणं तहेव हरिआणं। विटॅमि मिलाणमि, नायवं जीवविष्पजढं ॥१॥" पत्राणां पुष्पाणां सरडुफलानां अबद्धास्थिकफलानां तथैव हरितानां वा स्थूलादीनां सामान्यतः तरुणवनस्पतीनां वा
Jain Education Inter
259e & Personal use Only
IXII.jainelibrary.org