SearchBrowseAboutContactDonate
Page Preview
Page 250
Loading...
Download File
Download File
Page Text
________________ सामाचा रीशत कम् । ॥ १२१ ॥ Jain Education in तत्राऽपि ते मुग्धाः प्रस्तावं न विदन्ति यतस्तत्र सामायिकत्रत विवरणे सामायिकत्रतग्रहणानन्तरं "अह घरे तो से उवग्गहिअं रयहरणं अस्थि, तस्स असइ पुत्तस्स अंतेणं ति” अक्षराणि सन्ति तेषामयमर्थः - अथ गृहे सामायिकं करोति तदा तस्य औपग्रहिकं रजोहरणं अस्ति, तेन भुवं प्रमार्जयति, तस्य औपग्रहिकरजोहरणस्य 'असई' असत्त्वे - अभावे 'पोत्तस्स' वस्त्रस्य 'अन्तेन' अञ्चलेन संस्तारादिभुवं प्रमार्जयति, एतैरक्षरैः स्वाध्यायसंस्तारादिभूमिप्रमार्जनमेव उक्तं, न वन्दनादि । इत्यलं प्रसंगेन विस्तरार्थगवेषिभिः श्रीविचारामृतग्रन्थो ( १०४ पत्रे ) द्रष्टव्यः ॥ ॥ इति श्रावकाणां मुखवस्त्रिका धिकारः ॥ ४९ ॥ ननु - क्षामणादिसमये द्वितीयवन्दनप्रदानाऽनन्तरं श्रीआवश्यकवृत्तितृतीयाध्ययने इत्युक्तं यदुत 'खामेमि खमासमणो' इत्यादि सर्व सूत्रं आवश्यकादिविरहितं तत्पादपतित एव भणति इति, तत्रार्थे केचिद् भणन्ति द्वितीयवन्दनसूत्रं उत्थाय भण्यते, केचिद् वदन्ति उत्थानं विना स्थितेन सता भण्यते तत्रार्थे किं सत्यं कः संप्रदायश्च ? उच्यते-इह द्वितीयवन्दने निष्क्रमणवर्जः सर्वोऽपि विधिः प्रथमवन्दनकवदुक्तोऽस्ति 'आवस्तिआए' इति पदं च करणमार्गानागतत्वान्न भण्यते, तथा च श्रीआवश्यकचूर्णिग्रन्थे ( ४७ पत्रे ), तथाहि "जवणिज्जपुच्छा गता, इआणि अवराधखामणा, ताहे सीसो पुच्छति पाएसु पडितो-जं किंचि अवरद्धं खामे - तुकामो भणति - खामेमि खमासमणो ! देवसिअं वइक्कर्म, वइक्कमो नाम अइक्कमस्स बीओ अवराधो, सो अ वइक्कमो जे अवस्सं करणिज्जा जोगा विराहिआ तत्थ भवतित्ति 'अवस्सिआए' गहणं, दिवसे भवो देवसिओ, देवसिअग्गहणेण For Private & Personal Use Only द्वितीय वन्दनक मुत्थाय दातव्यमि त्यधिकारः ५० ॥ १२१ ॥ www.jainelibrary.org
SR No.600047
Book TitleSamacharishatakama
Original Sutra AuthorSamaysundar
Author
PublisherJindattsuri Gyanbhandar
Publication Year1939
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy