________________
षष्ठाध्ययने । कामदेवश्चाऽत्रैव द्वितीयाध्ययने (२७ पत्रे) एवं निर्गतो यथा "तए णं से कामदेवे समणोवासए इमीसे कहाए जाव लद्धडे समाणे एवं खलु समणो भगवं महावीरे जाव विहरति तं सेअं खलु मम समणं भगवं महावीरं वंदित्ता नमंसित्ता तओ पडिनियत्तस्स पोसहं पारित्तएत्तिकट्ट एवं संपेहेइ" इत्यादि । इह कुण्डकोलिकेन तदैव अन्यदा वा प्रतिपन्नपौषधेन परिमुक्तोत्तरीयेण श्रुतधर्मप्ररूपणारूपानुष्ठानं कृतं । तथा-"एवं सामाइअं काउं पडिक्कतो वंदित्ता पुच्छइ, सो अकिर सामाइअं करितो मउडं अवणेइ, कुंडलाणि नाममुदं पुष्फतंबोलं पावारणगमादी वोसिरति" इत्यावश्यकवृत्तौ षष्ठाध्ययने (८३२ पत्रे) प्रावारशब्दश्च सलोमपटोत्तरासंगवाचकत्वात् व्यर्थः, तथाहि| "पण्हवि १ कोयव २ पवार ३ नवतए ४ तहय दाढिगाली ५ य । दुप्पडिलेहिअदूसे, एवं बितिअं भवे पणगं ॥१॥"
इति, निशीथभाष्ये १२ उद्देशके| "खरडो तह पूरट्ठी, सलोमपडओ तहा हवइ जीणं । सदसं वत्थं पल्हविमाईणमिमे उ पज्जाया ॥१॥” इति प्रवचनसारोद्धारे, 'वैकल्ये प्रावारोत्तरासंगो बृहतिकाऽपि च', इति श्रीहेमनाममालायां, एवं प्रावारशब्दस्य अर्थद्वये सति य एव वृत्तिगतप्रावरणे मादीयतिपाठानुकूलः, बहुश्रुतैराचीर्णः स एव आचरणीयतया प्रमाणं, आदिशब्दाच्च, सलोम|पटादीनां परिहारो भविष्यति, इत्याद्यनेकेषु स्थानेषु श्रावकाणां मुखवस्त्रिका भणिताऽस्ति, अञ्चलेन वन्दनं न वाऽपि दृश्यते, यश्च कृष्णवासुदेवदृष्टान्तः कैश्चित्कथ्यते तत्राऽपि यथा मुखवस्त्रिकया वन्दनं न भणितं, तथा अञ्चलेनाऽपि नोक्तं । 'यत्तू असइ पुत्तस्स अंतेणं ति' आवश्यकचूय॑क्षराणि दृष्ट्वा पुत्तशब्देन भ्रान्ताः सन्तस्ते अश्चलेन वन्दनं वन्दन्ति,
सामा०२१
241
Jain Education inten
Mate & Personal use only
Dilw.jainelibrary.org