SearchBrowseAboutContactDonate
Page Preview
Page 246
Loading...
Download File
Download File
Page Text
________________ सामाचाशतकम् । ॥ ११९ ॥ Jain Education International इति विशेषणस्य श्रमणश्रावकादिसम्बन्धिनः सदृशमेव व्याख्यानं कृतं त्रिभिरपि ग्रन्थकृद्भिः । सूत्रे च करणशब्दस्य रजोहरणं मुखवस्त्रिकादिरूप एवाऽर्थः प्रदर्शितः । पुनः श्री आवश्यके वन्दननिर्युक्तौ ( ५४३ पत्रे ), तथाहि"अवणामा दुन्नहाजायं, आवत्ता बारसेव उ। सीसा चत्तारि गुत्तीओ, तिन्नि दो अ पवेसणा ॥ १२०३ ॥ एग निक्खमणं चेव, पणवीसं विआहिआ। आवस्सगेहिं परिसुद्धं, किइकम्मं जेहि कीरई ॥ १२०४ ॥ किकम्मंपि करितो, न होइ किइकम्मनिजराभागी । पणवीसामन्नयरं, साहू ठाणं विराहिंतो ॥ १२०५ ॥” इह आवश्यकचूर्णौ (४२ पत्रे ) यथा - "दुओणतं जाए वेलाइ पढमं वंदइ तहेव निष्फेडिऊणं पुणो वंदइ अहाजाते सामन्ने जोणि निक्खिमणे अ सामने रयहरणं मुहपोत्तिया चोलपट्टो अ जोणिनिक्खमणे अंजलीं सीसे काऊण णीति ।" एवं श्रीअनुयोगद्वारेषु षड्विधा आवश्यक क्रिया मुखवस्त्रिका-रजोहरणादिव्यापारपूर्विका प्रोक्ता । वन्दननिर्युक्तौ च इह यथाजातावश्यकं रजोहरणमुखवस्त्रिकाऽविनाभूतं दर्शितं तच्च साधूनां श्रावकाणां च शेषचतुर्विंशत्यावश्यकवत् प्रायः समानमेव युज्यते । श्राद्धान् एव केवलानाश्रित्य वन्दनकविधेः क्वाऽपि सिद्धान्तेऽनुपलम्भात् । नन्वेवं श्रावकाणां चोलपट्टोऽपि प्रसज्यते, इति न वाच्यं यतो यथाजातावश्यकं सामान्येन उक्तमपि पूर्वाचार्य सम्प्रदायात् किंचिद्विशेषणमेव ज्ञेयं । अन्यथा श्रमण्या अपि मुखवस्त्रिकावत् चोलपट्टः अपि प्रसज्येत । कश्चिदाह श्रावकाणां सर्वानुष्ठानेषु उत्तरासङ्गमुद्रा एव इति, तदयुक्तं, आगमे सम्प्रदाये च तथाऽनुपलम्भात्, तथाहि " तुंगिया नयरी मज्झं मज्झेणं निगच्छंति, निगच्छित्ता जेणेव पुप्फवईए चेइए तेणेव उवागच्छंति, उवाग For Private & Personal Use Only श्रावकाणां मुखवस्त्रकाधिकारः ४९ ॥ ११९ ॥ www.jainelibrary.org
SR No.600047
Book TitleSamacharishatakama
Original Sutra AuthorSamaysundar
Author
PublisherJindattsuri Gyanbhandar
Publication Year1939
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy