________________
SSSSSSSSSSS
"से किं तं लोगुत्तरिअं भावावस्सयं? भावावस्सयं जण्णं इमे समणे वा समणी वा सावओ वा साविआ वा तच्चित्ते तम्मणे तल्लेसे तदन्झवसिए तत्तिवज्झवसाणे तदट्ठोवउत्ते तदप्पियकरणे तब्भावणाभाविए अन्नत्थ कत्थइ मणं अकरेमाणे उभओकालं आवस्सयं करेंति" इत्येतद् वृत्त्येकदेशो यथा 'तदर्पितकरणः' करणानि-तत्साधकतमानि देहरजोहरणमुखवत्रिकादीनि, तस्मिन्नावश्यके यथोचितव्यापारनियोगेन अर्पितानि-नियुक्तानि तानि येन स तथा, सम्यक् यथास्थानन्यस्तोपकरण इत्यर्थः। एकार्थिकानि वा विशेषणानि एतानि प्रस्तुतोपयोगप्रकर्षप्रतिपादनपराणि, अमूनि च लिङ्गविपरिणामतः श्रमणीश्राविकयोरपि योज्यानि, तस्मात् तच्चित्तादिविशेषणविशिष्टाः श्रमणादयः 'उभयकालं' उभयसन्ध्यं यदावश्यकं कुर्वन्ति तल्लोकोत्तरिक, भावमाश्रित्य भावश्चासौ आवश्यकं चेति वा भावावश्यकं, अत्राऽपि अवश्यकरणादावश्यकत्वं तदुपयोगपरिणामस्य च सद्भावाद् भावत्वं मुखवस्त्रिकाप्रत्युपेक्षणरजोहरणव्यापारादिक्रियालक्षणदेशस्य अनागमत्वात् नोआगमत्वं भावनीय" इति । पुनः श्रीअनुयोगद्वारवृत्तौ श्रीवीरनिर्वाणात् सहस्रवर्षसमयसंजातैः श्रीहरिभद्रसूरिभिः कृतायां २० पत्रे । एवं श्रीअनुयोगद्वारचूर्णावपि (१४ पत्रे) तथाहि "तस्साहणे जाणि सरीररजोहरमुहणंतगादि यानि दवाणि ताणि किरिआकरणतणतो अप्पिआणि" इति, तथैवीर मल्लधारि-हेमचन्द्रसूरिकृतायां अनुयोगद्वारवृत्तावपि (३० पत्रे), तथाहि "तदर्पितकरणः" करणानि-तत्साधकतमानि देहरजोहरणमुखवस्त्रिकादीनि तस्मिन्नावश्यके यथोचितव्यापारनियोगेन अर्पितानि नियुक्तानि करणानि येन स तथा, अमूनि च तच्चित्तादिविशेषणानि लिङ्गविपरिणामतः श्रमणीश्रावकयोरपि योज्यानि । अत्र वृत्तिद्वये चूर्णौ च तदप्तिकरण
CERRAGASCARICARICAPEXES
Jain Education Inter
For 237sonal use only
Mw.jainelibrary.org