________________
Jain Education Inte
जलाग्निपुष्पादीनां उपमर्दो जायते परं पूजा कर्तुस्तेषां जलाग्निपुष्पादीनां उपमर्दे मनो नाऽस्ति, प्रत्युत तद्रक्षणे यतना क्रियमाणा अस्ति, मनस्तु निष्केवलं भगवद्भक्तिविशिष्टं वर्तते, तदिदं आगतं सत्यपि आरम्भे यत्तीर्थङ्करदेवेन अनुज्ञातं | तत्सत्यमेव । तत आज्ञासहितो जीवदयारूपो, न तु निष्केवलं जीवदयारूपोऽपि आज्ञारहित इति ॥
॥ इति आज्ञासहितदयाधर्माधिकारः ॥ ४२ ॥
ननु - श्रीभगवतीसूत्रे देवा अधर्मिण उक्तास्तर्हि क्वाऽऽगमे जिनप्रतिमापूजायाः फलं ? उच्यते - रे मनोमतिन् ! शास्त्रमत्या विचारय, 'अधर्मिण' इति कोऽर्थः ? तथाविधया कयाचिद् भवस्थित्या विरतिरूपो धर्मो नाऽस्ति तेषां, परं अन्यो धर्मो विरतिव्यतिरिक्तः सर्वोऽप्यस्ति, तथाहि - सर्व सूर्याभदेवाधिकारे पश्य विमुक्तं "धम्मिश्रं ववसायमि गिण्हइ" कोऽर्थः ? सूर्याभदेवेन धर्म कर्तुं इच्छता पूर्व जिनप्रतिमापूजा व्यधायि, एवं विजयदेवादिभिरपि विदधे, तथा देवाः || केsपि सम्यक्त्वधर्ममपि पालयन्ति तत् सम्यक्त्वं संबरमध्ये प्रोक्तं, यदुक्तं श्रीस्थानांगे पंचमस्थाने द्वितीयोदेशके संवराधिकारे ( ३१६ पत्रे ), तथाहि
“पंच आसवदारा पन्नत्ता, तं जहा-मिच्छत्तं अविरती पमादे कसाया जोगा ५ । पंच संबरदारा पत्ता, तं जहा सम्मत्तं विरती अपमादो अकसातित्तमजोगित्तं” इत्यत्र । इदं रहस्यं – ये देवाः सम्यक्त्ववन्तस्ते संवरवन्त उक्ताः, ततः कथं अधर्मिणः १ १ । पुनः श्रोतव्यं - देवाः शाश्वतरत्नादिमयपुस्तकवाचनपूर्वं परस्परं देवगुरुधर्मसम्बन्धिनं विचारं कुर्वन्ति स धर्मो न वा ? २ । तथा जिनानां पंचकल्याणकेषु मनुष्यक्षेत्रे समागत्य तीर्थङ्कराणां भक्तिं वितन्वते, स धर्मो न वा १ ३ ।
211
rivate & Personal Use Only
www.jainelibrary.org