________________
सामाचारीशत
जिनप्रतिमा-स्थापना-जिनइति-अधिकार ४०
॥९८॥
SSESS RELESECRUSSCOMSEX
आलिखित इति विवक्षा तदा प्रभूतद्रव्यसंश्लेषाकारादर्शनाद असद्भावपिण्डस्थापना, यदा पुनः एकबिन्द्वालिखनेऽपि एष मया गुडपिण्डः ओदनपिण्डः सक्तुपिण्डो वा आलिखित इति विवक्षा तदा सद्भावतः पिण्डस्थापना ॥ अU एव सद्भावासद्भावस्थापनाविभागं भाष्यकृद् उपदर्शयति
"इक्को उ असम्भावे, तिण्हं ठवणा उ होइ सम्भावे । चित्तेसु असम्भावे, दारुअलेप्पोवले सियरो ॥७॥" 4 व्याख्या-एकोऽक्षो वराटकोंऽगुलीयकादिः वा यदा पिण्डत्वेन स्थाप्यते तदा सा पिण्डस्थापना, 'असद्भावे' असद्भाव| विषया, असद्भाविकी इत्यर्थः।
तत्र पिण्डाकृतेः अनुपलभ्यमानत्वात् , अक्षादिगतपरमाणुसङ्घातस्य च अविवक्षणात् । यदा तु त्रयाणां अक्षाणां वराटकानां अङ्गुलीयकादीनां वा परस्परं एकत्र संश्लेषकरणेन पिण्डत्वेन स्थापना तदा सा पिण्डस्थापना, 'सद्भावे' सद्भाविकी, तत्र पिण्डाकृतेः उपलभ्यमानत्वात् , त्रयाणां चेति उपलक्षणं, तेन द्वयोः अपि बहूनां च इत्यपि द्रष्टव्यं । तथा 'चित्रेषु'-चित्रकर्मसु यदा एकबिन्द्वालिखनेन पिण्डस्थापना तदा साऽपि असद्भावे, यदा तु चित्रकर्मसु अपि अनेकबिन्दुसंश्लेषालिखनेन प्रभूतद्रव्यसङ्घातात्मकपिण्डस्थापना तदा सा सद्भावस्थापना, पिण्डाकृतेः तत्र दर्शनात् । तथा दारुकलेप्योपलेषु पिण्डाकृतिसंपादनेन या पिण्डस्य स्थापना स 'इतर' सद्भावस्थापनापिण्डः, तत्र पिण्डाकारस्य दर्शनात् ॥ तद् एवं उक्तः स्थापनापिण्डः इति ॥४०॥
॥ इति जिनप्रतिमास्थापना-जिन-इत्यधिकारः॥४०॥
॥९८॥
Jain Education Inter
For 1 96ersonal Use Only
T
ww.jainelibrary.org