________________
कलकर
diचतुर्गतिवर्तमानाः। ननु-भावश्रमणाः काऽभूवन् ? ततो भाविजिना अपि द्रव्यजिना इति हेतोः नमस्कारार्हाः, तथा
स्थापनायाः रूपाहत्वात् भावाद्वित् जिनप्रतिमाऽपि पूजनीया इति रहस्य, पुनरपि पिण्डनियुक्तौ तह तौ च (६ पत्रे) |पिण्डस्थापनाया एवं स्वरूपं, तथाहि-"ठवणापिंडं अतो वोच्छं" तत्समर्थयमानः स एव आह___ "अक्खे १ वराडए वा २, कढे ३ पोत्थे ४ व चित्तकम्मे वा ५। सम्भाव ६ मसब्भावं ७, ठवणापिंडं विआणाहि ४॥७॥" व्याख्या-सत इव-विद्यमानस्य इव भावः सत्ता-सद्भावः, किं उक्तं भवति?-स्थाप्यमानस्य इन्द्रादेः अनुरूपाङ्गो-18 पाङ्गचिह्नवाहनाहरणादिपरिकररूपो य आकारविशेषो यदर्शनात् साक्षाद् विद्यमान इव इन्द्रादिः लक्ष्यते स सद्भावः, तदभावो असद्भावः, तत्र सद्भावं असद्भावं च आश्रित्य अक्षे-चन्दनके वराटके-कपर्दके, वाशब्दोऽङ्गलीयकादिसमुचयार्थः, उभयत्रापि च जातौ एकवचनं, तथा काष्ठे-दारुणि पुस्ते ढिउल्लिकादौ, वाशब्दो लेप्यपाषाणसमुच्चये, चित्रकर्मणि वा या पिण्डस्य स्थापना साक्षादिः, काष्ठादिषु आकारविशेषो वा पिण्डत्वेन स्थाप्यमानः स्थापनापिण्डः, इयं अत्र भावना-यदा काष्ठे लेप्ये उपले चित्रकर्मणि वा प्रभूतद्रव्यसंश्लेषरूपः पिण्डाकारः साक्षाद् विद्यमान इव आलिख्यते, यद्वा अक्षाः कपर्दकाः अङ्गुलीयकादयो वा एकत्र संश्लेष्यपिण्डत्वेन स्थाप्यन्ते यथा एष पिण्डः स्थापित इति, तदा तत्र पिण्डाकारस्य उपलभ्यमानत्वात् सद्भावतः पिण्डस्थापना, यदा तु एकस्मिन् अक्षे वराटके अङ्गुलीयके वा पिण्डत्वेन स्थापना एष पिण्डो मया स्थापित इति, तदा तत्र पिण्डाकारस्य अनुपलभ्यमानत्वात् , अक्षादिगतपरमाणुसङ्घातस्य च अविवक्षणाद् असद्भावतः पिण्डस्थापना, चित्रकर्मणि अपि यदा एकबिन्द्वालिखनेन पिण्डस्थापना, यथा एष पिण्ड
AURRERERURSAISISSA
195vate s personal use Only
ww.jainelibrary.org
Jain Education