SearchBrowseAboutContactDonate
Page Preview
Page 202
Loading...
Download File
Download File
Page Text
________________ सामाचा रीशतकम् । ॥ ९७ ॥ Jain Education Inter ते एव अक्षाः त्रिप्रभृतय एकत्र स्थाप्यन्ते तदा सद्भावस्थापना, एवं वराटकेषु १ कपर्दकेषु २ तथा काष्ठकर्मणि ‍ वा इति । यदा एकं एव काष्ठं पिण्डः एष इत्येवं कल्प्यते तदा असद्भावस्थापना, यदा तु एकत्र बहूनि मिलि | तानि पिण्डत्वेन कल्प्यन्ते तदा सद्भाव स्थापना, एवं 'पुस्ते' [ धीडल्लिकादौ ] पुत्तलिकादिषु अपि एवं चित्रकर्मणि अपि, यदा एकचित्रकर्मणि पुत्तलपिण्ड इति स्थाप्यते तदा असद्भावपिण्डस्थापना, यदा त्रिप्रभृतिपिण्डबुद्ध्या कल्प्यते तदा सद्भावस्थापना, एवं सद्भावपिण्डं असद्भावपिण्डं च जानीहि । इत्यादि स्थापनापिण्डाधिकारे । पुनः श्रीअनुयोगद्वारसूत्रे ( १२ पत्रे ) स्थापनावश्यकं यथा ॥ "से किं तं ठवणावरस्यं ? ठवणावस्सयं २ जण्णं कटुकम्मे वा १ चित्तकम्मे वा २ पोत्थकम्मे वा ३ लेप्पकम्मे वा ४ गंथिमे वा ५ वेढिमे वा ६ पूरिमे वा ७ संघाइमे वा ८ अक्खे वा ९ वराडए वा १० एगो वा अणेगो वा सब्भाव|ठवणा वा असम्भावठवणा वा आवस्सएत्ति ठवणा ठविज्जइ से तं ठवणावस्सयं ( सूत्रं १०)” इति एतद्व्याख्या - एतदृत्तितो ज्ञेया, पुनः विचार्यतां मनोमते रे! तव नूतनम् मतं त्रिंशदधिकपञ्चदशशतवर्षे १५३० प्रवर्तितं परं क्वाऽपि तीर्थे श्रूयते जीवत्स्वामिप्रतिमा, पुनः घङ्घाणीनामग्रामे सांप्रतमेव भूमिगृहाद् बह्वचो पुरातन्यो जिनप्रतिमाः प्रकटीबभूवुः ता अतिपुरातनाः सन्ति, तत्र तत्र लिखितप्रशस्तिसंवद् एव प्रतिभूः । पुना रामसैन्यग्रामे अपि अतिजीर्णा श्रीऋषभदेवप्रतिमा प्रादुर्भूताऽस्ति, एवं शतशः स्थाने स्थाने शतशः प्रतिमा इति । पुनः श्रीदशाश्रुतस्कन्धे स्थविरावल्यां श्रीभद्रबाहु| स्वामिना देवर्द्धिगणिक्षमाश्रमणपर्यन्ता भाविनः साधवो वन्दिताः सन्ति, यस्मिन् अवसरे वन्दिताः तदवसरे ते साधुजीवाः For Private & Personal Use Only जिनप्रति मा-स्थाप ना-जिन इति-अ विकारः ४० ॥ ९७ ॥ w.jainelibrary.org
SR No.600047
Book TitleSamacharishatakama
Original Sutra AuthorSamaysundar
Author
PublisherJindattsuri Gyanbhandar
Publication Year1939
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy