________________
PHOTOSHOPARSISSES
पूजायां संसारप्रतनुकरणरूपफलनिवेदनपूर्वकः कूपदृष्टान्तः श्रीआवश्यकनियुक्ती (४९३ पत्रे) श्रीभद्रबाहुस्वामिभिः दत्तोऽस्ति, तथाहि| "अकसिणपवत्तगाणं, विरयाविरयाण एस खलु जुत्तो । संसारपयणुकरणो, दबथए कूवदिवतो ॥ १९४॥" भा० इति एतत्संबन्धोऽपि श्रीआवश्यकबृहदत्तिगतो द्वितीयखण्डे (४९३ पत्रे ) यथा-"जहा णवनगरादिसंनिवेसे केइ पभूअजलाभावओ तण्हाइपरिगया तदपनोदणत्थं कूवं खणंति, तेसिं च जइवि तण्हाइआ वहूति मट्टिकाकहभाईहि य मलिणिज्जति तहावि तदुब्भवेणं चेव पाणिएणं तेसिं ते तण्हाइआ सो अमलो पुवओ अफिट्टइ, सेसकालं च ते तदण्णे अ लोगा सुहभागिणो भवंति, एवं दवथए जइवि असंजमो तहावि ततो चेव सा परिणामसुद्धी भवति [हवइ] जाए असंजमोवजिअं अण्णं च णिरवसेसं खवेइत्ति । तम्हा विरयाविरएहिं एस दवथओ कायबो, सुहाणुबंधी पभूअतरनिजरा फलो यत्ति काऊणं" इति गाथार्थः ॥ १९४ ॥ पुनः प्राह मनोमतिः, ननु-यदि प्रतिमापूजायां लाभोऽस्ति तदा श्रावकेभ्यो साधवो विशेषेण लाभार्थिनः, ततः साधवोऽपि श्रावकवत् जिनप्रतिमां किमिति न पूजयन्ति ? उच्यते-भो मनोमते ! सर्वविरतयः साधवो हस्तादिना पुष्पादिकं स्पर्शन्ति अपि न कुतस्त्यं तेषां पूजाकरणं, साधूनां भावस्तवाईत्वेन द्रव्यस्तवस्य कर्तु अनुचितत्वात् , यदुक्तं श्रीभद्रबाहुस्वामिना श्रीआवश्यकनियुक्तौ (४९२ पत्रे), तथाहि| "छज्जीवकायसंजमु-दवथए सो विरुज्झई कसिणो। तो कसिणसंजमविऊ, पुप्फाईअंन इच्छंति ॥ १९३ ॥ (भा०)" इति, नाऽपि च एवं वर्तते यत् श्रावकैः क्रियते तत् पुण्यकार्यत्वात् साधुभिः अपि कार्य, यतः श्रावकाः क्षुधितस्य अन्नं
Jain Education Inten
19/vate & Personal use Only
19
.jainelibrary.org