SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ * *R CURRENCARRIERGARAS यथा श्रीउपदेशमालासूत्रे प्रकरणे]-"गाहाणं सवंगं, पंचसया चेव चालीसा" इति उक्तं, परं प्रान्त्यगाथा तद्व्यतिरिक्ताऽस्ति ! एवं अत्राऽपि ज्ञेयं ॥ ३९ ॥ ॥ इति जिनप्रतिमापूजाधिकारः ॥ ३९ ॥ । ननु-पूजनीया जगति ज्ञानादयो गुणाः, तद्योगात् तद्वानपि विद्यमानतीर्थकरवत् , परं जिनप्रतिमा तु काष्ठपाषाणादिमयी अचेतना च, ततो ज्ञानादिगुणराहित्येन कथङ्कारं पूजाहाँ जिनप्रतिमा काष्ठादिपुत्तलकवत् । अत्र उच्यते-सत्यं, परं श्रूयतां परमार्थः| "नामजिणा जिणनामा १, ठवणजिणा जिणवरिंदपडिमाओ२। दवजिणा जिणजीवा ३, भावजिणा समवसरणट्ठा[स्था] ४ ॥१॥ इति श्रीआवश्यकनियुक्तौ श्रीभद्रबाहुस्वामीवचनात् जिनप्रतिमास्थापनाजिनः, तदर्शने च सति समवसरणादिस्थो भावजिनः स्मृति आयाति, तत्स्मृतौ च तद्गुणचिन्तने चाऽनन्तो लाभः संप्रतिपद्यते, सद्यः दुर्गतिनाशः सुगतिप्राप्तिश्चाऽपि भवेतामिति, अत्राऽर्थे दृष्टान्तो यथा-भगवता उकं-भोः साधो! त्वं चित्रलिखितनारी मा द्राक्षी, तदर्शने नारी स्मृति आयास्यति, तत्स्वरूपचिन्तने च दुर्गतौ पातः स्यात् , यदुक्तं श्रीदशवैकालिकसूत्रे (२३६ पत्रे) __"चित्तभित्तिं न निज्झाए, नारिं वा सुअलंकि। भक्खरं पिव दट्टणं, दिद्धि पडिसमाहरे ॥५५॥” इति ।' ततो यथा चित्रनारीदर्शने अशुभपरिणामः प्रादुर्भवति तथा जिनप्रतिमादर्शने शुभपरिणामो जायते समानयुक्तित्वात् संगति अङ्गति च एतत् , पुनरपि श्रूयतां उपासकदशादौ (१२ पत्रे), "अन्नउत्थियदेवयाणि वा" इत्यादि उक्तत्वात् , हरिहरप्रमुखमिथ्यात्विदेव :98 * Jain Education Inte 189ates Personal use only jainelibrary.org *
SR No.600047
Book TitleSamacharishatakama
Original Sutra AuthorSamaysundar
Author
PublisherJindattsuri Gyanbhandar
Publication Year1939
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy