SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ उदायनस्य राज्ञः प्रभावत्याः देव्याः सत्का देवदत्ताऽभिधाना दासी अभूत् , सा च देवनिर्मितां गोशीर्षचन्दनमयीं श्रीमन्महावीरप्रतिमां राजमन्दिरान्तर्वर्तिचैत्यभवनव्यवस्थितां प्रतिचरति स्म, तद्वन्दनार्थ च श्रावकः कोऽपि देशान् संचरन् समायातः, तत्र च आगतोऽसौ रोगेण अपटुशरीरो जातः, तया च सम्यक् परिचरितः, तुष्टेन च तेन सर्वकामिक आराधितदेवतावितीर्ण गुटिकाशतं अदायि, तया च "अहं कुजा विरूपा सुरूपा भूयासं" इति मनसि विभाव्य एका गुटिका भक्षिता, तत्प्रभावात् सा सुवर्णवर्णा जाता, इति सुवर्णगुलिका इति नाम्ना प्रसिद्धिं उपगता, ततोऽसौ चिन्तितवती-"जाता मे रूपसंपदा एतया |च किं भर्तृविहीनया? तत्र तावद् अयं राजा पितृतुल्यो न कामयितव्यः, शेषास्तु पुरुषमात्रं अतः किं तैः?" ततः उज्जयिन्याः पतिं चण्डप्रद्योतराजं मनसि आधाय गुटिका भक्षिता, ततोऽसौ देवतानुभावात् तां विज्ञाय तदानयनाय हस्तिरत्नं आरुह्य तत्राऽऽयातः, आकारिता च तेन सा, तया उक्तं आगच्छामि यदि प्रतिमा नयसि, तेन उक्तं-"तर्हि श्वो नेष्यामि ।" ततोऽसौ स्वनगरी गत्वा तद्रूपां प्रतिमां कारयित्वा तां आदाय तथैव रात्री आयातः, स्वकीयप्रतिमां देवतानिर्मितप्रतिमास्थाने विमुच्य तां सुवर्णगुलिकां च गृहीत्वा गतः, प्रभाते चण्डप्रद्योतगन्धहस्तिविमुक्तमूत्रपुरीषगन्धेन विमदान स्वहस्तिनो विज्ञाय ज्ञातचण्डप्रद्योतागमोऽवगतप्रतिमासुवर्णगुलिकानयनोऽसौ उदायनराजा परं कोपं उपगतो दशभिः महाबलै राजभिः सह उज्जयिनी प्रति प्रस्थितः, अन्तरा पिपासाबाधितसैन्यः त्रिपुष्करकरणेन देवतया निस्तारितसैन्यः अक्षेपेण उज्जयिन्याः बहिः प्राप्तो रथारूढश्च धनुर्वेदकुशलतया सन्नद्धहस्तिरत्नारूढं चण्डप्रद्योतं प्रजिहीर्षः मण्डल्या SAARASSASSIX* Jain Education liter 187 For Private & Personal use only V w .jainelibrary.org
SR No.600047
Book TitleSamacharishatakama
Original Sutra AuthorSamaysundar
Author
PublisherJindattsuri Gyanbhandar
Publication Year1939
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy