SearchBrowseAboutContactDonate
Page Preview
Page 19
Loading...
Download File
Download File
Page Text
________________ च्छीयसूरिभिरपि क्वापि सामायिकदण्डकाऽनन्तरं ईर्यापथिकीप्रतिक्रमणं निगदितमस्ति ? उच्यते-श्रीदेवेन्द्रसूरिभिः श्रावक| दिनकृत्यसूत्रवृत्तौ तथैव प्रतिपादना कृताऽस्ति, तथाहि तओ वियालवेलाए, अस्थमंते दिवायरे । पुब्बुत्तेण विहाणेण पुणो वंदे जिणोत्तमे ॥ २२८॥ तओ पोसहसालं तु, गंतूणं तु पमज्जए । ठावित्ता तत्थ सूरिं तु, तओ सामाइअं करे ॥ २२९ ॥ काऊण य सामाइयं, इरिअं पडिक्कमिअ गमणमालोए । वंदित्तु सूरिमाई, सज्झायावस्सयं कुणइ ॥ २३०॥ साम्प्रतम्-अष्टादशसत्कारद्वारमाह-'तओ वि०' ततो वैकालिकानन्तरं-विकालवेलायां अन्तर्मुहूर्तरूपायां, तामेव व्यनक्ति, अस्तमयति दिवाकरे-अर्द्धबिम्बादाक् इत्यर्थः, पूर्वोक्तेन विधानेन पूजां कृत्वेति शेषः, पुनर्वन्दते-जिनोत्तमान् प्रसिद्धचैत्यवन्दनविधिनेति ॥ २२८ ॥ अथैकोनविंशं वन्दनोपलक्षितमावश्यकद्वारमाह__'तओ.' ततः तृतीयपूजाऽनन्तरं श्रावकः पौषधशालां गत्वा यतनया प्रमाटिं, ततो नमस्कारपूर्वकं व्यवहितः, 'तु'शब्दस्य एवार्थत्वात् स्थापयित्वैव, तत्र सूरिस्थापनाचार्य ततो विधिना सामायिकं करोति ॥२२९॥ अथ तत्र साधवोऽपि सन्ति श्रावकेण गृहे सामायिकं कृतं, ततः सोऽसौ साधुसमीपे गत्वा किं करोतीत्याह___ 'काऊण' साधुसाक्षिकं पुनः सामायिकं कृत्वा-ईया प्रतिक्रम्य आगमनमालोचयेत् , तत्र आचार्यादीन् वन्दित्वा स्वाध्यायकाले चावश्यकं करोति ॥ २३०॥ अत्र उभयत्र सामायिकानन्तरमीर्याप्रतिक्रमणं निवेदितम् । एवं कुलमण्डनसूरिकृतग्रन्थेऽपि । ननु-यदि तपागच्छी lain Educaton inte For Private & Personal Use Only XTwww.iainelibrary.org
SR No.600047
Book TitleSamacharishatakama
Original Sutra AuthorSamaysundar
Author
PublisherJindattsuri Gyanbhandar
Publication Year1939
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy