SearchBrowseAboutContactDonate
Page Preview
Page 18
Loading...
Download File
Download File
Page Text
________________ सामाचा शत कम् । ॥ ५ ॥ Jain Education in रादनन्तरमेव ईर्यापथिकी प्रतिक्रमणं निर्दिष्टं शिष्टैः । पुनरपि श्रूयताम् - यदि प्रथममीर्यापथिकी प्रतिक्रमणमन्तरेण किञ्चिदपि धर्मकर्त्तव्यं न शुद्धयेत, तदा प्रत्यक्षं विरोधः समापद्येत । यतः ईर्यापथिकी प्रतिक्रमणमन्तरेण देवगृहे साधुसाध्वीश्रावक श्राविकाभिः सदैव देववन्दना क्रियते ॥ १ ॥ धर्मशालायामागत्य मार्गे वा साधुसाध्वीनां साधु श्रावकैवन्दना विधीयते । २ । श्रावकैर्यत्र तत्र स्थित्वा पञ्चपरमेष्ठीनमस्कारा गुण्यन्ते । ३ । श्रावकैः साधुसाध्वीसमीपे प्रत्याख्यानं प्रत्याचक्ष्यते । ४ । श्राद्धैः साधुभ्यो दानं दीयते । ५ प्रथमोपधानं वाह्यते । ६ । तत्र सर्वत्र सर्वेषामपि धर्मकर्त्त - व्यत्वात् कथं तेषां शुद्धिः, तत ईर्यापथिकीप्रतिक्रमणं विना न किञ्चिदपि शुद्ध्यतीति वचनं न सहृदयानां हृदयङ्गमम् । पुनरपि रे शिष्य ! शृणु महानिशीथवाक्यम् । श्रीदेवेन्द्रसूरिभिरपि विशेषविषयं लिखितं श्रीषडावश्यकवृत्तौ दिनकृत्यवृत्तौ च, तथाहि - ( पत्रं २४ ) सम्प्रदायात् उत्कृष्टं चैत्यवन्दना ईर्यापथिकीप्रतिक्रमणपुरस्सरं विधेया इति अतः सदैवाऽऽदौ व्याख्यायते इति । श्रीदेवेन्द्रसूरिशिष्यैर्महोपाध्याय - श्रीधर्म्मकीर्त्तिभिरपि चैत्यवन्दनकभाष्यवृत्तौ सङ्घाचाराभिधानायां प्रोचे, तथाहि “यद् - अत्र - ईर्यापथिक्या अपि फलमुपदर्शितं तदीर्यापथिकी प्रतिक्रमणपूर्विकैव परिपूर्णचैत्यवन्दनेति प्रतिपादनार्थम्, इति तावत् प्रोक्तम् ।” पुनरप्यग्रे वृद्धाः पुनरेवमाहुः, उत्कृष्टा चैत्यवन्दना ईर्यापथिकींप्रतिक्रमणपुरस्सरैव कार्या, अन्यथापि जघन्या मध्यमेति इति, ततः सामान्योक्तावपि यो विधिर्यत्र नामग्राहं प्रोक्तः स तत्र कार्य इति तत्त्वम् । ननु-तपाग 10 For Private & Personal Use Only पूर्व करेमि भंते ! प श्चात् इरियावहियं अधिकारः १ ॥५॥ www.jainelibrary.org
SR No.600047
Book TitleSamacharishatakama
Original Sutra AuthorSamaysundar
Author
PublisherJindattsuri Gyanbhandar
Publication Year1939
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy