SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ Jain Education Intera "जइ चेइआई अत्थि तो पढमं वंदइ ।” इति वाक्येन सामायिकदण्डकात् चैत्यवन्दनान्तरिता ईर्यापथिकी प्रोक्ता, तत् कथम् ? उच्यते तत्र सामायिक करणे चैत्यवन्दनायाः सामाचारीविशेषात् नानात्वमवसेयम्, न व्यामोहो विधेयः । नानात्वेऽपि सर्वत्र | सामायिकदण्डकोच्चारादनन्तरम् एवम् ईर्यापथिकीप्रतिक्रमणं प्रतिपादितं, न सामायिकदण्डकात् प्राकू, पुनस्तु चर्चाविस्तरो नवपदप्रकरणवृत्त्यादिभ्यो ज्ञेयः । - "अडिक्कता इरियावहियाए न कप्पइ चैव काउं किंचिवि चिअवंदण १ सज्झायझाणाइअं २ फलासायमभिक्खुगाणं ॥" इत्यादि श्रीमहानिशीथ सिद्धान्ताक्षरदर्शनात् ईयापथिकीप्रतिक्रमणमकृत्वा च न किञ्चिदन्यत्कुर्यादशुद्धतापत्तेरिति । | दशवैकालिकवृत्तिपाठबलाश्च ईर्यापथिक्यामप्रतिक्रान्तायां न कल्पते एव, किश्चिच्चैत्यवन्दना स्वाध्यायादि ततो ज्ञायते चैत्यवन्दनकादिवत् किञ्चित् शब्दसूचितानि अन्यान्यपि सर्वाणि सामायिकादीनि धर्मकार्याणि अप्रतिक्रान्तायामीर्यापथिक्यां न शुद्धयन्तीति पूर्वपक्षः ?, तत्रोत्तरमिदम्, सत्यं परं महानिशीथवाक्यं चैत्यवन्दनस्वाध्याय - ध्यानप्रतिक्रमणादिरूपबहुक्रिया गोचरत्वेन बहुविषयत्वात् सामान्यम्, आवश्यकादिवाक्यं तु केवलसामायिक गोचरत्वेनाऽल्पविषयत्वात् विशेषः, सामान्याच्च विशेषो बलीयानिति । यदुक्तं वैयाकरणे 'सामान्यशास्त्रतो नूनं विशेषो बलवान् भवेदिति' यथा दधि इहेति स्थाने "इयं स्वरे" इति सामान्यसूत्रस्य बाधकं “सवर्णे दीर्घः सह” इति विशेषसूत्रं । भवतु नाम महानिशीथवचनप्रामाण्यात् चैत्यवन्दनखाध्यायादौ प्रथमम् ईर्यापथिकीप्रतिक्रमणं, परं सामायिकग्रहणविधौ तु नामग्राहं विधिवादेन चरितानुवादेन सर्वत्र सामायिकदण्डकोच्चा 9 For Private & Personal Use Only www.jainelibrary.org
SR No.600047
Book TitleSamacharishatakama
Original Sutra AuthorSamaysundar
Author
PublisherJindattsuri Gyanbhandar
Publication Year1939
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy