________________
तस्स, वोसट्ठो चिंतए इमं ॥ ९१ ॥ अहो जिणेहिं असावज्जा, वित्ती साहूण देसिआ । मुक्खसाहणहे उस्स, साहुदेहस्स धारणा ॥ ९२ ॥ नमुक्कारेण पारित्ता, करित्ता जिणसंथवं । सज्झायं पट्टवित्ता णं, वीसेमेज्ज खणं मुणी ॥ ९३ ॥ पुनः श्रीगौतमस्वामिना श्रीउपासकदशासूत्रे ( २१ पत्रे ) गमनागमनं आलोचितं अस्ति, तथाहि
"तते णं से भयवं गोयमे आनंदपणं समणोवासएणं एवंवुत्ते समाणे, संकिए कंखिए वितिगिच्छिए भेदसमावने आणंदस्स समणोवासगस्स अंतियाओ पडिनिक्खमइ पडिनिक्खमित्ता जेणेव दूइपलासे चेइए, जेणेव समणे भगवं महावीरे तेणेव उवागच्छइ, उवागच्छित्ता समणस्स भगवओ महावीरस्स अदूरसामंते गमणागमणे पडिक - | मइ, पडिक्कमित्ता एसणमणेसणं आलोएइ, आलोइत्ता भत्तपाणं पडिदंसेइ, पडिदंसित्ता समणं भगवं महावीरं वंदइ नमसइ" इत्यादि, एवं स्थाने स्थाने साधुभिः आहाराद्यर्थं गत्वा आगत्य गुरुपार्श्वे गमनागमनं आलोचितं अस्ति । पुनरपि आह मनोमतिः ननु यदि विद्याचारणा जङ्घाचारणाश्च अन्तराले कदाचित् कालं कुर्युः तदा कुत्र यान्ति ? उच्यते - गतिः तेषां सूत्रे न लिखिताऽस्ति परं त्वमपि विद, आहारार्थं विद्यमानतीर्थङ्करवन्दनार्थं वा गत्वा कदाचित् साधुः म्रियते तदा कुत्र गच्छेत् ? अत्र इदं रहस्यं जानीहि — अत्र भावस्य एव प्रधानत्वं ज्ञेयं, यथा संविग्नगीतार्थसमीपे साधुः आलोचनाग्रहणार्थं गच्छन् अन्तराले एव कालं कुर्वन् शुद्धभावत्वेन सुगतिमेव गच्छेत् तथा विद्याचारणा जङ्घाचारणा अपि सुगतिभाज एव । अपि च मनुष्यक्षेत्राद् बहिः न केsपि वियन्ते मनुष्यक्षेत्रान्तरं अपि "दुसमुद्दे तिन्नि सेस जले” इति उक्तत्वात्, लवणसमुद्रादौ सिद्धान्ते उक्ताः अथ च पञ्चचत्वारिंशलक्षयोजनप्रमिते क्षेत्रे
167