________________
सामाचारीशतकम् ।
॥८
॥
तथा चतुर्दशपूर्विणो जघन्यतोऽपि लान्तके गच्छन्ति, कार्तिकस्तु चतुर्दशपूर्वधरोऽपि सौधर्मे समुत्पन्नः ॥ १६ ॥ एवं | ४५-आप्रत्यागमं शतशो विसंवादाः सन्ति किं क्रियते । ननु-यदि एक एव श्रीदेवर्द्धिगणिक्षमाश्रमणः पञ्चचत्वारिंशतोऽपि गमस्थापआगमानां संकलनां कृतवान् तर्हि कथं एतावन्तो विसंवादा लिखिता तेन ? उच्यते-एकं तु कारणं इदं, यथा यथा नाधिकारः यस्मिन् यस्मिन् आगमे मृतावशिष्टसाधुभिः यद् यद् उक्तं तथा तथा तस्मिन् तस्मिन् आगमे श्रीदेवर्द्धिगणिक्षमाश्रमणेन अपि पुस्तकारूढीकृतं, नहि पापभीरवो महान्त इदं सत्यं, इदं तु असत्यं इति एकान्तेन प्ररूपयन्ति इति, द्वितीयं तु कारणं इदं, यथा बल्लभ्यां यस्मिन् काले देवर्द्धिगणिक्षमाश्रमणतो वाचना प्रवृत्ता, तथा तस्मिन् एव काले मथुरानगर्या अपि । स्कन्दिलाचार्यतोऽपि द्वितीया वाचना प्रवृत्ता, तदा तत्कालीनमृतावशिष्टछद्मस्थसाधुमुखविनिर्गतागमालापकेषु संकलनायां विस्मृतत्वादिदोष एव वाचनाविसंवादकारको जातः । यदुक्तं श्रीज्योतिष्करण्डकवृत्ती, तथाहि-"इह स्कन्दिलाचार्यप्रवृत्तौ दुःषमानुभावतो दुर्भिक्षप्रवृत्त्या साधूनां पठनगणनादिकं सर्व अपि अनश्यत् , ततो दुर्भिक्षातिकमे सुभिक्षप्र. वृत्तौ द्वयोः सङ्घयोः मेलापको अभूत् , तद् यथा, एको बल्लभ्यां, एको मथुरायां, तत्र सूत्रसंघट्टने वाचनाभेदो जातः, विस्मृतयोः हि सूत्रार्थयोः स्मृत्वा स्मृत्वा संघट्टने भवति अवश्यं वाचनामेदः, न कदाचिद् अनुपपत्तिः, तत्र अनुयोगद्वारादिकं इदानीं वर्तमानं माथुरीवाचनानुगतं, ज्योतिष्करण्डकसूत्रकर्ता च आचार्यों वाल्लभ्यः, तत इदं संख्यास्थानप्रतिपादनवाल्लभ्यवाचनानुगतं, इतिान अस्य अनुयोगद्वारप्रतिपादितः संख्यास्थानैः सह विसदृशत्वं उपलभ्य विचिकित्सि
ASSISLOSESSISSEISUSTUSSEX
Jain Education Inter
For Rivate & Personal use only
(GOMw.jainelibrary.org
160