________________
है
दस अज्झयणा पन्नत्ता, तं जहा-उवमा १ संखा २ इसिभासिआई ३ आयरिअभासिआइं ४ महावीरभासिआई ५ खोमगपसिणाई ६ कोमलपसिणाई ७ अद्धा हागपसिणाई ८ अंगुटुपसिणाई ९ बाहुपसिणाई १०" इति अत्र अयं विरोधः-अत्र उक्तं 'एतानि दश अध्ययनानि श्रीप्रश्नव्याकरणे सन्ति,' तानि कानि? न एतादृशानि नामानि काऽपि सन्ति, नाऽपि अर्थवक्तव्यता सङ्गतिः, सांप्रतं तु पञ्च आश्रवद्वाराणि पश्च संवरद्वाराणि च सन्ति ॥७॥
एवं श्रीजीवाभिगमसूत्रे नारकाणां संहननं न उक्तं, अथ च उत्तराध्ययनसूत्रे एकोनत्रिंशदध्ययने मांसं नारकाणां उक्तम् ॥८॥तथा श्रीआचाराङ्गसूत्र द्वितीयश्रुतस्कन्धे पिण्डैषणाऽध्ययने चतुर्थोद्देशके षड्रसनवविकृतिग्रहणं अनगाराणां उक्तं,श्रीस्थानाङ्गे भगवत्यां च मांसनिषेधःप्रत्यपादि, दशवैकालिके मद्यनिषेधः॥९॥तथा दशवैकालिकादौ उक्तम्-साधवः षड्डीवनिकायरक्षकाः सञ्चित्तपृथिव्यप्तेजोवायुवनस्पत्यादिसंघट्टे आहारं अपि न गृहन्ति । पुनः श्रीआचाराङ्गे श्रीकल्पसूत्रे च साधूनां नदीलवनं नद्युत्तरणं वर्षति अपि मेघे आहारार्थ गमनं च समनुज्ञातम् ॥१०॥ श्रीभगवत्यादौ श्रावकाणां पञ्च-16 दश कर्मादानानि निवारितानि ॥ उपासकदशासूत्रे आनन्दकामदेवादीनां पञ्चशतहलवाहनेऽपि श्रावकत्वं श्लाषितम् ॥११॥ तथा प्रथमोपाङ्गे तापसानां उत्कृष्टा गतिः ज्योतिष्केषु प्रोक्ता ॥ भगवत्यां तु तामलितापस ईशानकल्पे समुत्पन्नः॥१२॥ तथा सूत्रकृताङ्गे साधोः स्त्रीसङ्गतो त्रिविधं त्रिविधेन परिहारः प्रत्यपादि । श्रीस्थानाङ्गे तु साधुः प्रपतन्ती साध्वीं स्वहस्तेन | अवलम्बयेत् इति उक्तम् ॥१३॥ ज्ञातायां श्रीकृष्णवासुदेवस्य अन्तःपुर्यों द्वात्रिंशत्सहस्राः लिखिताः, अन्तकृते च षोडशसहस्राः॥१४॥ तथा अष्टमाङ्गे श्रीकृष्णो द्वादशमो जिनो भावी इति निगदितं, समवायाङ्गे तु त्रयोदशम इति ॥१५॥
M
Jain Education Inter
159& Personal use Only
ainelibrary.org