SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ सामाचारीशत ॥७७॥ SAGARSASARANG तत्पूर्वाचार्यकर्तृसमानत्वेन पञ्चचत्वारिंशद् अपि अङ्गीकुरु, न च वक्तव्यं पूर्वाचार्यकर्तृसमानत्वेऽपि यत् मम श्रद्धया समं ४५-आमीलिष्यति दशवैकालिकदशाश्रुतस्कन्धप्रज्ञापना उत्तराध्ययनादिकं तत्प्रमाणं करिष्यामि, ननु मामकीनश्रद्धया समं| गमस्थापविघटमान-निशीथ-महानिशीथ-प्रकीर्णकादिकं इति, एवं चेत्तर्हि तव मनोमानितं प्रमाणम् , न पूर्वाचार्यादिकत्रपेक्षा, अपिटानाधिकारः च निशम्यतां समां शेमुषीं विधाय, पूर्वाचार्याः पूर्वश्रुतधरा गुरुपरम्परागताम्नायविदः परमसंविग्नाः संसारोद्विग्नाः परलोकगवेषिणो रागद्वेषरहिताः शुद्धप्ररूपकाः सर्वजनमान्याश्च आसन् , त्वं तु आधुनिको अल्पमतिः तादृक् पूर्वाचार्यविनिर्मिता-8 |गमेषु केषुचित् मान्यत्वं केषुचिच्च अमान्यत्वं वदन् स्वकीयश्रद्धां च सत्यां स्थापयन् अतीवाऽसंगतत्वात् लोकविरुद्धत्वाच्च सभ्यलोकेभ्यो न लजसे ?, नाऽपि परलोकात् बिभेषि ? तव शिरो लोहजटितं इव दृश्यते, अपि च रे विज्ञंमन्य ! तत्त्वदृष्ट्या विचारय, सांप्रतं वर्तमानाः पञ्चचत्वारिंशद् अपि आगमाः श्रीदेवर्धिगणिक्षमाश्रमणैः श्रीवीरात् अशीत्यधिकनवशत ९८० वर्षे जातेन द्वादशवर्षीयदुर्भिक्षवशात् बहुतरसाधुव्यापत्तौ बहुश्रुतविच्छित्तौ च जातायां यदाहुः "प्रसह्यं श्री|जिनशासनं रक्षणीयं, तद् रक्षणं च सिद्धान्ताधीनं" इति भविष्यद्भव्यलोकोपकाराय श्रुतभक्तये च श्रीसङ्घाग्रहात् मृतावशिष्टतत्कालीनसर्वसाधून वल्लभ्यां आकार्य तन्मुखात् विच्छिन्नावशिष्टान् न्यूनाधिकान् त्रुटितात्रुटितान् आगमालापकान् अनुक्रमेण स्वमत्या संकलय्य पुस्तकारूढाः कृताः, ततो मूलतो गणधरभाषितानां अपि तत्संकलनानन्तरं सर्वेषां ४५ अपि आगमानां कर्ता श्रीदेवर्द्धिगणिक्षमाश्रमण एव जातः, तद् ज्ञापकं अपि इदं, यथा श्रीभगवतीसूत्रं श्रीसुधर्मस्वामिकृतं, प्रज्ञापनासूत्रं च वीरात् पञ्चत्रिंशदधिकत्रिशत ३३५ वर्षजातं श्रीश्यामाचार्यकृतं, श्रीभगवत्यां च बहुषु स्थानेषु डू MASAKAAROO Jain Education interna l For Private & Personal Use Only ww.jainelibrary.org
SR No.600047
Book TitleSamacharishatakama
Original Sutra AuthorSamaysundar
Author
PublisherJindattsuri Gyanbhandar
Publication Year1939
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy