SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ ६.महानिशीथ २ दशप्रकीर्णक १२ अनुयोग (द्वाराणि) १३ एते त्रयोदश, तेषां पूर्वाचार्यछद्मस्थप्रणीतत्वात् , मम मनस्तु है गणधरदेवभाषितं एव प्रीतिं जनयति न अन्यत्, अत्रार्थे रे मनोमतिशिष्य ! शृणु निश्चलमनोदानेन गणधरदेवभाषिता तु द्वादशाङ्गी अभूत् मूलतः, तत्रापि दृष्टिवादः सूत्रार्थाभ्यां व्यवच्छिन्नः, सांप्रतं एकादश अङ्गानि गणधरभाषितानि, अन्यागमाः सर्वेऽपि छास्थैः पूर्वाचा : अङ्गेभ्यः उद्धृताः सन्ति, यथा प्रज्ञापना श्रीश्यामाचार्येण कृता, यदुक्तं प्रज्ञापना प्रथमपादे (५ पत्रे ) अन्यकृतं गाथाद्वयं इदम् , तथाहि-'वायगवरवंसाओ, तेवीसइमेण धीरपुरिसेणं । दुद्धरधरेण मुणिणा, पुबसुयसमिद्धबुद्धीणं ॥१॥ सुयसागरा विणेऊ-ण जेणं सुअरयणमुत्तमं दिन्नं । सीसगणस्स भगवओ, तस्स नमो अज-15 सामस्स ॥२॥ एतट्टीकायां एतद्गाथाद्वयव्याख्यानं अपि अस्ति, श्रीऋषिमण्डलसूत्रेऽपि १९१ गाथायाम् , यथा-'निजूढा जेण तया, पनवणा सबभावपन्नवणा। तेवीसइमो पुरिसो, जाओ सामजनामुत्ति ॥१॥ स च श्रीश्यामाचार्यः श्रीमहावीरात् ३३५ वर्षे जातो, यदुक्तं विचारसारे-"सिरिवीराउ गएK, पणतीसहिएसु तिसयवरिसेसुं। पढमो कालिगसूरी, जओ सामन्जनामुत्ति ॥१॥" ॥१॥ तथा दशाश्रुतस्कन्धस्तु श्रीभद्रबाहुस्वामिना चतुर्दशपूर्वधरेण श्रीमहावीरदेवतः सप्तत्यधिकशत १७० वर्षे जाते तेन विनिर्मितः ॥२॥ श्रीदशवकालिकसूत्रमपि श्रीसुधर्मस्वामिनः चतुर्थपट्टधरेण श्रीशथ्यभवसूरिणा विहितम् ॥३॥ श्रीउत्तराध्ययनसूत्रं तु श्रीपाक्षिकवृत्तौ "ऋषिभाषितानि उत्तराध्ययनानि" इति व्याख्यातत्वात् ऋषिभाषितं ॥४॥ एवं अन्येऽपि आगमाः छेदग्रन्थादिका अवशिष्टाः सर्वेऽपि पूर्वाचार्यकृता एव सन्ति, ततः त्वं एकादश अङ्गानि एव मन्यस्व न द्वात्रिंशत् आगमान् । अथ यदि उपाङ्गादीन् द्वात्रिंशद् आगमान मानयिष्यसि तदा CACANCEREMORRORSCORRECT Jain Education in 153rate & Personal use Only ww.jainelibrary.org
SR No.600047
Book TitleSamacharishatakama
Original Sutra AuthorSamaysundar
Author
PublisherJindattsuri Gyanbhandar
Publication Year1939
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy