________________
Jain Education Intera
साक्षिः लिखिताऽस्ति "जहा पन्नवणाए" । एवं अन्येषु अपि अङ्गेषु उपाङ्गसाक्षिः लिखिता, तद्वाचने त्वया उपयोगो देयः, ततः पञ्चचत्वारिंशतोऽपि आगमानां संकलनाकारक एक एव श्रीदेवर्द्धिगणिक्षमाश्रमणः, ततः सामान्ये आगमकर्तृके मान्यामान्यवचनसत्ताऽपि समाना एव । न च वाच्यं अङ्गोपाङ्गेभ्यो अन्ये आगमा विघटन्ते तर्हि कथं मया ते मन्यन्ते ?, एवं चेत्तर्हि अङ्गेभ्यो अङ्गानि विघटन्ते, उपाङ्गेभ्य उपाङ्गानि एवं अङ्गेभ्य उपाङ्गानि अपि तदा तानि अपि अमान्यानि भविष्यन्ति, तद्विघटनं यथा श्रीसमवायाङ्गे ( ६० पत्रे ) चतुस्त्रिंशत्तमे समवाये "जओ जओवि य णं अरहंतो भगवंतो विहरंति तओ तओवि य णं जोयणपणवीसाएणं ईती न भवति २७ मारी न भवति २८ सचक्कं न भवति २९ परचकं न भवति ३० अइवुट्टी न भवति ३१ अणावुट्टी न भवति ३२ दुब्भिक्खं न भवति ३३ पुहुप्पन्ना वि य णं उप्पाइया वाही खिष्पमिव उवसमंति ३४” एतत्सूत्रप्रतिस्पर्धिसूत्रं श्रीविपाकसूत्रं ( ५७ पत्रे ), तथाहि - "ते णं काले णं ते णं समए णं समणे भगवं महावीरे पुरिमताले नयरे समोसढे परिसा निग्गया, राया निग्गओ, धम्मो कहिओ, परिसा राया य पडिगओ, ते णं काले णं ते णं समए णं समणस्स भगवओ महावीरस्स जेट्ठे अंतेवासी गोयमे, जाव रायमग्गं समोगाढे समोसढे, तत्थ णं बहवे हत्थी पासति, बहवे आसे पुरिसे सण्णद्ध बद्धकवर तेसिं णं पुरिसाणं मज्झगयं एगं पुरिसं पासति, अवउडय ( बंधणबद्धं ) जाव उग्घोसेज्जमाणं, तते णं तं पुरिसं रायपुरिसा पढमंमि चच्चरंसि निसियपवेंति निसियावेत्ता अट्ठ चुल्लप्पियए अग्गओ घाणंति” अत्र समवायाङ्गे प्रोक्तं यदुत भगवतः सकाशात् पञ्चविंशतियोजनानि यावत् | ईति - मारी - स्वचक्र - परचक्रादिकं न भवति, विपाके तु प्रतिपादितं यत्र भगवान् समवसृतः तत्र एव अनङ्गसेनः सकुटुम्बो
For Part 15. Srsonal Use Only
w.jainelibrary.org