________________
पौषधं पर्वदिनानुष्ठानं, तच्च द्वेधा-इष्टजनभोजनदानादिरूपं, आहारादिपौषधरूपं च, तत्र शङ्कः इष्टजनभोजनदानरूपं. पौषधं कर्तुकामः सन् यदुक्तवान् तदर्शयत-इदं उकं इति, अथ यदि शतकादिश्रावकैः भोजनानन्तरं पौषधो गृहीतो अभविष्यत् तदा तत्र पौषधपारणप्रस्तावोऽपि प्रोको अभविष्यत् , परं न उक्तः इति नो गृहीतः, न च वक्तव्यं यथा तथा पौषधकरणं भव्य एव, एवं चेत्तर्हि प्रभाते भुक्त्वा पौषधः कर्तव्यः, ततः पुनरपि सन्ध्यायां पौषधमध्ये भुक्त्वा पौषधकरणं पौषधस्य आराधनं कर्तव्यं, न च अयं पौषधो लाभाय भवेत् , यदि अतिप्रसङ्गनिवारणार्थ भोजनद्वयी पौषधो गीताथैः। निषिद्धः, तदा अस्माकीनगीतार्थैः अपि अतिप्रसङ्गनिवारणार्थ पौषधमध्ये भोजनं निषिद्धं अस्ति, पुनः सिद्धान्तवचनं प्रमाणं, न अस्माकं कोऽपि पक्षपातः॥२९॥
॥इति भोजनानन्तरं पौषधग्रहणनिषेधाधिकारः ॥ २९॥ ननु-श्रीखरतरगच्छे यदि चतुष्पवर्वी कल्याणकादितिथिं च विना पौषधग्रहणं निराकृतं, तर्हि उपधानमध्ये कथं श्राद्धानां | सदा पौषधग्रहण कार्यते ? उच्यते-सत्यं, यद्यपि उपधानाधिकारे श्राद्धानां श्रीमहानिशीथसूत्रे पौषधग्रहणं न अलेखि, तथापि समस्तगच्छीयगीतार्थसम्मततया सर्वेषु अपि धर्मगच्छेषु गीतार्थैः स्वस्वोपधानदिनप्रमाणतया तत्र स्वस्वतपोयोग-18 विधिप्रकरणेषु निबद्धं, ततो अस्मद्गीतार्थवृद्धः अपि अन्यगीतार्थसम्मत्या आचरणया उपधानमध्ये पौषधग्रहणं प्रमाणीकृतं, उपधानमध्ये पौषधग्रहणपारणादिसर्वविधिः श्रीखरतरगच्छाधिपतिश्रीजिनवल्लभसूरिभिः श्रीपौषधविधिप्रकरणे प्रोक्तोऽस्ति, तथैव श्रीजिनपतिसूरिभिः द्वादशकुलकवृत्तौ, पुनः श्रीजिनप्रभसूरिभिः विधिप्रपायां, अपि च श्रीअभयदेव
Jain Education intent
For P
4
dal Use Only
Sijainelibrary.org