________________
सामाचा
शतकम् ।
॥ ६८ ॥
Jain Education Inter
सूरेः हि श्रीऋषभदेवशिष्यत्वं न व्यभिचरति शिंशपत्वे वृक्षत्ववत् । तथा तपागच्छीयग्रन्येऽपि सूरिप्रतिष्ठा एव स्थाने स्थाने दृश्यते, यदुक्तं - तपाश्रीसोमसुन्दरसूरि - तच्छिष्यमहोपाध्याय - श्री चारित्रगणित द्विनेय- पं० सोमधर्मगणिविरचितायां उप| देशसप्ततिकायां द्वितीयाधिकारे अष्टमोपदेशे ( ३८ पत्रे ), तथाहि - " निर्मापितं पासिलसंज्ञकेन, श्रद्धावता श्राद्धवरेण चैत्यम् । आरासणे श्रीगुरुदेवसूरि- प्रतिष्ठितं तीर्थमभूत् क्रमेण ॥ १ ॥" पुनः अत्रैव सम्बन्धप्रान्ते ( ४० पत्रे ) -
" गोगाकस्य सुतेन मन्दिरमिदं श्रीनेमिनाथप्रभो - स्तुङ्गं पासिलसंज्ञितेन सुधिया श्रद्धावता मन्त्रिणा । शिष्यैः श्रीमुनिचन्द्रसूरि सुगुरोर्निर्ग्रन्थचूडामणे - र्वादीन्द्रैः प्रभुदेवसूरिगुरुभिर्नमेः प्रतिष्ठा कृता ॥ १ ॥” एतदक्षरानुसारेण सूरिः एव प्रतिष्ठाकृत् संभाव्यते, पुनः यथार्थता यथार्थवेदिगम्या इति ॥ २६ ॥
॥ इति सूरेः प्रतिष्ठाधिकारः ॥ २६ ॥
ननु - आत्मनां गच्छे चतुर्दशीहानौ चतुर्दशीकृत्यं पौषधग्रहण पाक्षिकातिचारालोचनादिकं पूर्णिमायां क्रियते, अन्यगच्छेषु तु केषुचित् त्रयोदश्यां विधीयते तत्कथं ? उच्यते – पूर्णिमायाः पर्वतिथित्वेन मूलपक्षे सिद्धान्ते प्रत्याख्यातत्वात् पूर्णिमायां एव तत्सङ्गतिं अङ्गति ?, अपि च पर्वभूतां पूर्णिमां अमावास्यां वा विहाय अपर्वभूतायां त्रयोदश्यां कथं पाक्षिककृत्यं क्रियेत ?, को नाम विज्ञंमन्यो निकटवर्तिनीबृहत्प्रवाहां गङ्गां तीर्थभूतां विहाय अतीर्थभूते कूपे स्नानं समाचरेत् ?, पुनः त्रयोदश्यां तिथ्यां तत्करणे तु आगमाचरणयोः द्वयोः मध्ये एकस्याऽपि पक्षस्य अनाराधितत्वं स्यात् । यदुक्तं श्रीजि - नप्रभसूरिभिः विधिप्रपायां, तथाि
136
For Private & Personal Use Only
चतुर्दशीहानौ पूर्णि मायां पौ
पधादिका
र्यकरणा
धिकारः
२७
॥ ६८ ॥
ww.jainelibrary.org