SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ Jain Education Inter धिरमणो सूरी ॥ १ ॥” इति, न च कथं तर्हि 'थुइदाणमंतनासो, आहवणगहाण तह य संबंधी । नित्तुम्मीलणदेसण - गुरुअहिगारा इहं कप्पे ॥ १ ॥ इति पादलिप्टाचार्येण स्वप्रतिष्ठाकल्पे प्रतिष्ठाधिकारी गुरुः प्रोक्तः इति वाच्यम् । सूरेः यतो गुरुत्वं न व्यभिचरति, तीर्थङ्करत्वे धर्माचार्यत्ववत्, पुनरपि श्रीगौतमपृच्छा टीकायां श्वेताम्बरप्रवरस्य केवलिनः एष प्रतिष्ठा प्रोक्ता, तस्यैव प्रतिष्ठाभिधायिसूरिमन्त्रसद्भावात्, न सामान्यसाधोः, तथाहि "देवाहिदेवपडिमं, पहाणसिरिखंडदारुणा तेण । जह दिहं कारविउ, एवमुत्ता महामचा ॥ १ ॥ देवाधिदेवपडिमं, नवकारिअं पट्टेही । को नाम तं पइ इमं तयणु अमचेहिं विन्नन्तं ॥ २ ॥ अह रायगिहे देवा - हिदेव आणं पडिच्छिवि इहे व । सो बंभरिसी कविलो, चिट्ठइ नयरीइ तुह अहुणा ॥ ३ ॥ एस सिअंबरपवरो, केवलनाणी मुणी सयंबुद्धो । तुह पडिमा पइडं, करिही पुण्णोदओ अ होहि ॥ ४ ॥ तोऽवंतीपहु अम्भ-तिथएण कविलेण मुणिवयंसेण । पडिमा पइडिआ सा, जहा विहाणेण तत्थ सयं ॥ ५ ॥" न च वाच्यं एवं "एमेवयसन्नीणं वि, जिणाण पडिमासु पढमपटुवणे । मा परवाई विग्धं, करिज्ज वाई तओ वि सइ ॥ १ ॥ सावओ को वि पढमं जिणपडिमाए पइदुषणं करेइ” इति श्रीबृहत्कल्पभाष्य चूयः वचनात् श्रावकसत्ताऽपि जिनप्रतिमाप्रतिष्ठा करणे घटां आटीकते, तस्य बृहत्कल्पभाष्यचूर्णिवचनस्य 'पढमं ठवणं- पढमं णसणं' इत्यादि भणिष्यमाणार्थ सद्भावेन परमार्थं तदुपरियुक्तीश्च यतिप्रतिष्ठास्थापनस्थले वक्ष्यामः, तदर्थिना तत्स्थलं विलोकनीयं, पुनरपि यत् शत्रुञ्जयमाहात्म्ये श्रीअष्टापदप्रतिष्ठा श्रीऋषभदेवशिष्येण कृता इति लिखितं तत्र व्यामोहो न कार्यः, तत्राऽपि तस्य शिष्यस्य स्वलब्ध्या अष्टापदोपरि चटनेन सातिशयित्वात् सूरित्वेन भाव्यं, अथवा 135 For Private & Personal Use Only w.jainelibrary.org
SR No.600047
Book TitleSamacharishatakama
Original Sutra AuthorSamaysundar
Author
PublisherJindattsuri Gyanbhandar
Publication Year1939
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy