SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ सामा० १२ Jain Education Inter सामान्यतया प्रोक्तानि, परं यद्यपि तत्र उपधानतपसि पौषधत्रतं न उक्तं, तथापि समस्त गच्छीयगीतार्थसम्मततया सर्वेषु अपि धर्मगच्छेषु नियतं यथा स्वस्वोपधानादिप्रमाणतया तत्र स्वस्वतपोयोगविधिप्रकरणेषु गीतार्थैः निबद्धं दृश्यते, तैः कार्यमाणं च उपासकैः उपलभ्यते । तत्र श्री अभयदेवसूरि शिष्यपरमानन्दकृतयोगविधिग्रन्थे चतुश्चत्वारिंशदधिकद्वादशशतवर्षे १२४४ लिखिते यथा “पौषधग्रहणपुरस्सरं उपधानतपो विधेयमिति अत उपधानविधिः उच्यते इति १ " पुनः | श्रीचन्द्रगच्छीय-श्रीअजित देवसूरिकृतयोगविधौ त्रिसप्तत्यधिकद्वादशशतवर्षे १२७३ कृते यथा “ श्रावकश्राविकाणां तु एकस्मिन् उपधाने अव्यूढेऽपि गुर्वाज्ञया अनुज्ञानन्दी विधीयमाना दृश्यते, परं एतैः अहोरात्र पौषधदिनानि पश्चादपि शीघ्रं सविशेषं पूरणीयानि २” पुनरपि तपागच्छीय- श्रीरत्नशेखरसूरिकृते श्रीआचारप्रदीपे ( १९ पत्रे ), यथा पौषधग्रहणक्रिया तु यद्यपि श्रीमहानिशीथे साक्षात् नोक्ता, तथाऽपि यथा साधोः योगेषु अतिशायि क्रियावत्त्वं सर्वप्रतीतं | तथा श्राद्धानां अपि उपधानेषु विलोक्यते ३” पुनरपि श्रीखरतरगच्छाधिपति - श्री जिनपतिसूरिकृत द्वादश कुलकवृत्तिःवडगच्छीयजीर्णसामाचारी - श्रीजिनप्रभसूरिकृतविधिया - श्रीमान् देवसूरिकृतकुर्लेकप्रमुखग्रन्था विलोकनीयाः ॥ - श्री विधिप्रपायां "मुहपत्तिं पडिलेहिअ वंदिअ भणइ भगवन् ! भातपाणी पारावेह, उवहाणवाही भणइ - नवकार सहिअं चउबिहाहारं, इअरो भणइ - पोरिसिं पुरिमहुं वा तिविहाहारं चउबिहाहारं वा एगासणं निविइअं आयंबिलं वा जा काइ वेलातीए भत्तपाणं पारावेमि त्ति”, श्रीजिनप्रभसूरिभिः 'उवहाणवाही भणइ इअरो भगइ' इति भेदद्वयोक्त्या पौषधमध्ये उपधानं विनाऽपि कथं भोजनं अनुज्ञातम् ? उच्यते - तत्परमार्थ लघुखरतरगच्छीयाः श्रीजिनप्रभसूरय एव जानन्ति, 133 For Private & Personal Use Only w.jainelibrary.org
SR No.600047
Book TitleSamacharishatakama
Original Sutra AuthorSamaysundar
Author
PublisherJindattsuri Gyanbhandar
Publication Year1939
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy